This page has been fully proofread once and needs a second look.

V
 
शाङ्कुरवेदान्तकोशः
 
"प्रदेशविशेषावस्थितमनः संयोग:" (नील० गु० पृ० ३८) । मेध्यामनः संयोगो वा ।

यथा न कञ्चन स्वप्नं पश्यति (बृ० उ० ४ । ३ । १९ ) । इत्यादौ स्वप्नशब्दार्थः । यथा

वा स्वप्नज्ञानं मानसविपर्ययः इत्यादौ ग्रन्थे स्वप्नशब्दार्थः । अत्र प्रदेशविशेषस्तु पुरी -

तद्वहिर्देशयोः सन्धिः । निरिन्द्रियात्मप्रदेशो वा चिन्त्यः (न्या० को०) ।
 
४९४
 

 
स्वप्नज्ञानम् - , स्वप्नज्ञान
(बुद्धिप्रभेदः अविद्या) । (क) जाग्रदवस्थायां बाह्यवस्त्वनुभव-

जन्यमयथार्थं स्मरणम् । तच्च निराकारमेव (त० भा० प्रमेय० नि० पृ० ४० ) । स्वप्ने

च सर्वमेव ज्ञानं स्मरणमयथार्थम् । दोषवशेन तदितिस्थाने इदमित्युदयात् ।

सर्वं ज्ञानं निराकारमेव न तु ज्ञानं तत्तद्विषयाकारकम् । साकारज्ञानवादनिराकरणात्

(त० भा० प्रमेय० नि० पृ० ४०) । तथा स्वप्न:- (वै०९।२।७) इति सूत्रे चेत्थमुक्तम्-

स्मृतौ यथा संस्कारः कारणं तथा स्वप्रसंज्ञकमानसज्ञानेडपि इत्याह तथा इति । तथा

आत्ममनः संयोगविशेषात् पूर्वानुभवजनितसंस्काराच्च स्वप्नो मानसं ज्ञानं भवतीति ।

अत्र संयोगे विशेषो मेध्यामनःसंयोगात्मकदोषविशिष्टत्वम् । अत एव तदानीं भ्रम

एव भवति । पूर्वानुभवश्चैहिको जन्मान्तरीयो वा (वै० वि० ९।२।७ पृ०

४०९) । अत्रेदं बोध्यम् । स्वप्नज्ञानं पुरी- तद्बहिर्देशयोः सन्धौ मनसि स्थिते अदृष्टविशेषेण

चिन्ताविशेषेण धातुदोषेण वा जन्यते । तच्च मानसविपर्ययेऽन्तर्भवति (सि०

च० पृ० ३४) (त० दी० गु० पृ० ३८) । इत्यन्यत्रोक्तम् । तत्र स्वप्नज्ञाने

असमवायिकारणं स्वप्नः । धात्वदृष्टादिकं निमित्तकारणम् । आत्मा समवायिकारणमिति

ज्ञेयम् । स्वप्नस्य स्मृतिरूपत्वमुक्तं प्रशस्तदेवाचार्यैः अतीतज्ञानप्रत्यवेक्षणात्स्मृतिरेव

इति । उक्तं च वृत्तिकारैः अनुभूतवस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वप्नज्ञानम्

(वै० उ० ९/२/८ पृ० ४११) इति । तेन यत्तु नीलकण्ठ्यां स्मृतिरूपत्वं स्वप्नज्ञानस्य

खण्डितं तद्भाष्यादितात्पर्यानाकलनादेव इति मम भाति । (ख) निद्रा दुष्टान्तःकरणजं

ज्ञानम् । (ग) मानसविपर्यय: (त० दी० गु० पृ० ३८) (सि० च०) । (घ)

मिथ्याप्रत्ययप्रवाहः (न्या० ली० गु० पृ० ३१) । (ङ) सिद्धाभिभूतज्ञानम् (न्या०

ली० गु० पृ० ५९) । (च) उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेण यदनुभवनं

मानसं तत् स्वाप्नज्ञानमित्यमुत्पद्यते । यदा बुद्धिपूर्वादात्मनः शरीरारब्धव्यापरादहनि

खिन्नानां प्राणिनां निशि विश्रान्त्यर्थमाहारपरिणामार्थं वा अदृष्टकारितप्रयत्नापे-

क्षात्मान्तःकरणसम्बन्धजन्यक्रियाप्रबन्धादतीतमन्तर्हृदये निरिन्द्रियात्मप्रदेशे निश्चलं

मनस्तिष्ठति तदा प्रलीनमनस्क इत्याख्यायते । प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो

भवति । तस्यामवस्थायां प्रबन्धेन प्राणापानसन्तानप्रवृत्तावात्मनः संयोगविशेषात्स्वापाख्यात्

संस्काराच्चेन्द्रियद्वारेणेवासत्स्वपि विषयेषु प्रत्यक्षाकारं ज्ञानमुत्पद्यते (प्रशस्त० गु०

पृ० २५) । अत्र च मानसं ज्ञानं ज्ञानलक्षणरूपालौकिकसन्निकर्षाद्भवति स्मरणं

संस्कारादिति विशेष: (वै० वि० ९/२/७)।