This page has been fully proofread once and needs a second look.

NUTES
 
शाकुरवेदान्तकोशः
 
४९३
 
चेन्न । स्वतः प्रामाण्यग्रहें जलज्ञानं प्रमा न वा इत्यनभ्यासदशायां प्रमात्वसंशयो न

स्यात् । अनुव्यवसायेन प्रामाण्यस्य निश्चितत्वात् । तस्मात् ग्राह्यत्वाभावात् परतो

ग्राह्यत्वम् । तथाहि प्रथमं जलज्ञानान्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोक्तं ज्ञानं

प्रमा समर्थप्रवृत्तिजनकत्वाद् यन्नैवं तन्नैवं यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं

निश्चीयते (त० स० दी० प्रा० वा० ) । यथा च "विज्ञानसामग्रीजन्यत्वे सति

तदतिरिक्तहेत्वजन्यत्वं प्रमाया: स्वतस्त्वम्" (सर्व० सं० पृ० २८३ जैमि०) ।
 
-
 

 
स्वतेजः - , स्वतेज
आत्मज्योतिः । यथा - "स्वतेजसा चैतन्यज्योतिषा इदं विश्वं

विश्वरूपं तपन्तं प्रकाशयन्तम्" (गी० ११/१९ नी० क०) ।
 
-
 

 
स्वतो ग्राह्यत्वम् - , स्वतस् ग्राह्यत्व
प्रामाण्यं स्वतो ग्राह्यं परतो वेति पक्षद्वयम् । अत्र भावल्युडन्तः

प्रमाणशब्दः प्रमावाची । तेन प्रामाण्यमर्थात् प्रमात्वं स्वतोग्राह्यमथवा परतो वेति । प्रमात्वं

च ज्ञानानां तवति तत्प्रकारकत्वम् । एवम्भूतस्य प्रमात्वस्य ग्राह्यता अग्राह्यता च स्वतो

जायते परतो वा जायत इति विचारः प्रामाण्यवादः । अत्र प्रमात्वं स्वतो ग्राह्यम् अप्रामाण्यं

परत इति अद्वैतवेदान्तिनः । एतद् विपरीताः केचन नैयायिकादयः । एतदर्थं स्वतः

प्रामाण्यम् इति शब्दो द्रष्टव्यः ।
 

 
स्वधर्मः - , स्वधर्म
स्वः आत्मा तस्य धर्मः आध्यात्यावगतिरूपः । यथा- "परेषामि-

न्द्रियाणां धर्मात् प्रावृत्तिकात् स्वनुष्ठितात् सुगमत्वेनानुष्ठातुं शक्यादपि स्वधर्म आत्म-

धर्म आध्यात्म्यावगतिरूपः विगुणः प्राकृतगुणवियुक्तः मुक्तिहेतुत्वात् प्रशस्यतरः"

(गी०३।३५ भाष्यो०) । यथा च "सर्वथा मुक्तसङ्गस्य स्वधर्मचारिणो नास्ति

कश्चित्पुण्यपापात्मको बन्धः । स्वधर्मो हि हृदयादनपायी स्वरसनिगूढ एव न

तेन कश्चिदपि रिक्तो जन्तुर्जायत इत्यत्याज्य:" (तत्रैव अभिनवगुप्त टी०) ।
 
5
 

 
स्वपीतः-, स्वपीत
सु +अपि +इतः प्राप्तः स्वपीतः प्राप्तब्रह्मावस्थः ।तथा स्वम् आत्मानम्

अपि इतः प्राप्तो भवति । सता ब्रह्मणा सम्पन्नः प्राप्तो भवतीति यावत् । यथा -

"यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं

स्वपित्याचक्षत एवं ह्यपीतो भवति" (छा० ६।८।१ ) । " इति एषा श्रुतिः

स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्व्यक्ति" (ब्र० सू० १ ।१।९ शा० भा० ) ।

 
स्वप्नः , स्वप्न
जागरितादिषु अवस्थासु एका अवस्था । यत्र इन्द्रियाणि शेरते ।

अन्तःकरणस्य तत्तद् विषयाकारावृत्तिर्भवति । यथा - "इन्द्रियाजन्यविषयगोचरापरो-

क्षान्तंःकरणवृत्त्यवस्था स्वप्नावस्था जाग्रदवस्थाव्यावृत्यर्थमिन्द्रियाजन्येति अविधावृत्तिमत्यां

सुषुप्तौ अतिव्याप्तिवारणाय अन्तःकरणेति" (वे० प० ७ १०) । यथा च -
 
COM