This page has not been fully proofread.

४९२
 
शावेदान्तकोशः
 
-
 
ज्ञायते च । बौद्धानां मते प्रामाण्यं परतः अप्रामाण्यं च स्वतः । तार्किकरक्षाग्रन्थे समासत
इदमित्थमुक्तम् – प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः । नैयायिकास्ते परतः
सौगताश्चरमं स्वतः। प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः
परतश्चाप्रमाणताम् । यथा चोक्तमद्वैतवेदान्तिमतम् - एवमुक्तानां प्रमाणानां प्रामाण्यं
स्वत एवोत्पद्यते ज्ञायते च । तथा हि स्मृत्यनुकूलसाधारणं संवादिप्रवृत्त्यनुकूलं तवति
तत्प्रकारकज्ञानत्वं प्रामाण्यम् । तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते
प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः । रूपादि-
प्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् पीतः शङ्खः इति प्रत्ययस्य
भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां गुणः
असल्लिङ्गपरामर्शादिस्थलेऽपि विषयाबाधेन अनुमित्यादेः प्रमात्वात् । न चैवमप्रमापि
प्रमा स्यात् ज्ञानसामान्यसामग्ग्रा अविशेषादिति वाच्यम् । दोषाभावस्यापि हेतुत्वाङ्गी-
कारात् । न चैवं परतस्त्वमिति वाच्यम् । आगन्तुकभावकारणापेक्षायामेव परतस्त्वात् ।
ज्ञायते च प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्-
स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानं तद्ग्राहकं साक्षिज्ञानं तेनापि
वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यं गृह्यते । न चैवं त्रामाण्यसंशयानुपपत्तिः ।
तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र
प्रामाण्यस्यैवाग्रहात् । यद् वा यावत् स्वाश्रयग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले
प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यं तु
न ज्ञानसामान्यसामग्रीप्रयोज्यम् । प्रमायामप्यप्रामापत्तेः । किन्तु दोषप्रयोज्यम् । नाप्य-
प्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् । अप्रामाण्यघटकतदभाववत्त्वादेर्वृत्तिज्ञानानुप-
नीतत्वेन साक्षिणा ग्रहीतुमशक्यत्वात् । किन्तु विसंवादि प्रवृत्त्यादिलिङ्गकानुमित्यादिविषय
इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति (वे० प० ६ प०) ।' इतोधिकज्ञानार्थं
तत्त्वप्रदीपिकाग्रन्थो द्रष्टव्यः ।
 
-
 
.....नैयायिकादीनां मते प्रामाण्यं परतः उत्पद्यते ज्ञायते च । यथोक्तम्-
ज्ञानानां तवति तत्प्रकारकत्वं स्वतो ग्राह्यं परतो वेति विचार्यते । तत्र विप्रतिपत्तिः ।
ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ञानग्राहकसामग्रीग्राह्यं न वा । अत्र
विधिकोटिः स्वतस्त्वम् । निषेधकोटिः परतस्त्वम् । ननु स्वत एव प्रामाण्यं गृह्यते
घटमहं जानामि इत्यनुव्यवसायेन घटघटत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात्
व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । पुरोवर्तिनि प्रकारतासम्बन्धस्यैव प्रमात्वपदार्थत्वादिति