This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
४९१
 
-
 
(बृ० उ० १ ।५।३) । इति श्रुतिर्मानम् । धीशब्देन वृत्तिरूपज्ञानाभिधानात् । अत एव

कामादेरपि मनोधर्मत्वम् (वे० प० १ प०) । इत्यद्वैतवेदान्तिनः । २. बुद्धिः यथा-

संस्कारमात्रजन्यं ज्ञानम् (त० सं० ) । प्रत्यक्षबुद्धिनिरोधे तदनुसन्धानविषयः स्मृतिः

(न्या० बा०) । इति वार्तिके उक्तम् । यथा मातुः स्मरति इत्यादौ स्मृधात्वर्थः ।

संस्कारमात्रजन्यमित्यस्य चक्षुराद्यजन्यत्वे सति संस्कारजन्यमित्यर्थः । मात्रपदोपादानेन

प्रत्यभिज्ञायां नातिव्याप्तिः । प्रत्यभिज्ञायाश्चक्षुर्जन्यत्वात् (नील० १ पृ० १४) ।

इति । अत्र प्राञ्चो नैयायिकाः स्मृतिलक्षणे न मात्रपदमावश्यकम् । न च सोऽयं

देवदत्तः इति प्रत्यभिज्ञायामतिव्याप्तिः इति वाच्यम् । तत्र संस्कारजनिता स्मृतिरेव

हेतुः । न तु संस्कारोऽपि इत्यतिव्याप्तिविरहात् इत्याहुः (त० कौ० १ पृ० ६) ।

मध्वाचार्यानुयायिनस्तु स्मृतिः मनोजन्या न तु संस्कार- जन्या । संस्कारस्तु मनसस्तदर्थ-

सन्निकर्षरूप एव । यथा योगीन्द्रियाणां योगजो धर्म इत्याहुः (प्र० प० पृ० ९ ) ।

स्मृतिश्च वैशेषिकनये बुद्ध्यन्तर्गतविद्याप्रभेदः (प्रशस्त० पृ० २५) ।

लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वाभ्यासादरप्रत्ययजनिताच्च

संस्कारात् दृष्टश्रुतानुभूतेष्वर्थेषु विशेषानुस्मरणेच्छाद्वेषहेतुः तदतीतविषया स्मृतिः

(प्रशस्त० २ पृ० ३२) इति । अत्र पाठान्तरं विशेषानुव्यवसायेच्छानु-स्मरणद्वेषहेतुः

(प्रशस्त० २ पृ० ४९-५०) इति । अत्र सूत्रम्- आत्ममनसोः संयोग-विशेषात्

(प्रणिधानादिसन्निधानादसमवायिकारणात्) । संस्काराच्च स्मृतिः (वै०९।२६) ।

इति । अत्र स्मृतौ संयोगविशेषो समवायिकारणम् । संस्कारो निमित्त कारणम् । आत्मा

समवायिकारणमिति विज्ञेयम् (वै० उ० ९ । १ ।६) (न्या० को०) ।
 
-
 

 
स्वतःप्रामाण्यम् - , स्वतःप्रामाण्य
अत्र प्रमाणशब्दः प्रमापरः, तेन प्रमाणानां प्रमाणां प्रामाण्यं

प्रमात्वमित्यर्थः । प्रमीयते यत् तदिति भावार्थे ल्युट् । तेन प्रमाणं प्रमा इत्यर्थः । प्रमा

च यथार्थानुभवः । स च तद्वति तत्प्रकारकज्ञानरूपः । अत्रेदं प्रमात्वं यथार्थानुभवत्वं

स्वत उत्पद्यते ज्ञायते च अथवा परत उत्पद्यते ज्ञायते च । एवमेव अप्रमात्वमपि

स्वत उत्पद्यते ज्ञायते च अथवा परत उत्पद्यते ज्ञायते च । इदमेव कथ्यते स्वतः

प्रामाण्यं परतो वा प्रमाण्यम्, स्वतः अप्रामाण्यं परतो वा अप्रामाण्यम् । अत्र दार्शनिकानां

मतभेदोऽस्ति । सांख्ययोगविदः प्रमाणत्वम् अप्रमाणत्वं चोभयं स्वत उत्पद्यते ज्ञायते

चेति मन्यन्ते । नैयायिकवैशेषिकाः प्रामाण्यं परतः अप्रामाण्यं च स्वतः । अद्वैतवेदान्तिनः

पूर्वमीमांसकाश्च प्रामाण्यं स्वत उत्पद्यते ज्ञायते च तथा अप्रामाण्यं परत उत्पद्यते