2023-03-12 05:02:11 by ambuda-bot
This page has not been fully proofread.
४९०
शाङ्कुरवेदान्तकोशः
पृ० २१२) । स्फोटत्वं च स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मात् अनेन वा इति व्युत्पत्त्या
अर्थप्रकाशकत्वम् । प्रकाशश्च ज्ञानम् । तथा च अर्थनिष्ठविषयताप्रयोजकशक्तिमत्त्वं
पर्यवस्यति । वर्णस्यैव तत्त्वाभ्युपगमे वर्णस्फोटः पदादीनां तत्त्वाभ्युपगमे तु पदादि-
स्फोट इति व्यवहारः (वै० भू० सा० द० पृ० २१२) । स्फोटस्यावश्यकत्त्वमाह - पदानां
वर्णसमूहरूपाणामाशुविनाशितयैकक्षणावस्थायित्वादप्रत्यक्षत्वं तावन्निरूढम् । तथा च
पदाप्रत्यक्षे पदार्थस्मृतेः क्षिप्तमभागमक्रमवर्णं बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयत
इति । स्फोटश्च पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्ग्यः । अत्र स्फोटस्याभि-
व्यक्तौ प्राकृतो ध्वनिः कारणम् । चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनिः
कारणमिति विवेको ज्ञेयः (वै० सि० ल० म० १ ) । स च शाब्दिकमत प्रसिद्धः ।
अत्र महाभाष्यम् - अथ गौरित्यत्र कः शब्दः ? येनोच्चारितेन
सास्नालाङ्गूलककुखुरविषाणानां सम्प्रत्ययो भवति स शब्द उच्यत इति । तथा च
भागवते (१२।६।४०)। स्फोटश्रवणस्यात्मलिङ्गत्वमुक्तम् - शृणोति य इमं स्फोटं सुप्ते
श्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ (वै० सि० ल०
मञ्जूषायाम्) इति । (न्या० को०) । शाब्दबोधहेतोः असम्भवः स्यात् । अतः
स्फोटः कश्चनाङ्गीकर्तव्यः यतोऽर्थप्रत्ययः इति । अथ वा वर्णानां
प्रत्युच्चारणमन्यथाप्रतीयमानतया अनित्यत्वेन आशुविनाशिनां च तेषां मेलनासम्भवेन
तत्समुदायस्यापि सम्बन्धित्वाभावेन प्रत्येकं वर्णेषु वृत्तौ व्यभिचारेण च
पूर्वपूर्ववर्णानुभवजन्यसंस्कारबीजवदन्त्यवर्णजनितपरिपाकशालिनि हृदये झटिति
समुदीयमानस्य स्फोटरूपस्यैव नित्यतया तत्रैव नित्यसम्बन्धस्य योग्यतया वृत्तिमत्त्वमु
चितमिति । तथा
योगसूत्रभाष्यकृद्व्यास आह- तदेतेषामर्थसङ्के-
तेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य
सङ्केत्यते तदेकं पदमेकबुद्धिविषयः अष्टौ स्फोष्मपक्षे । (अधिक तु० वै० सि० ल०
म०स्फो० नि० प्रकरणं द्र०) ।
च
-
-
स्मार्तः - स्मृतिप्रोक्तो यज्ञयागादिः । यथा - "स्मार्तश्च देवयज्ञादि:" (गी०
१६।१ शा० भा०) । यथा च - "स्मार्तो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञ
इति चतुर्विधः" (तत्रैव म० सू०) । यथा च - "यज्ञश्च श्रौतोऽग्निहोत्रादिः देवयज्ञः ।
स्मार्तश्च पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति त्रिविधः" (तत्रैव भाष्यो०.) ।
8
स्मृतिः - १. अनुमानतम् । यथा प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यत्यर्थः
(ब्र० सू० ३।२।२४ शा० भा० ) । अत्र प्रत्यक्षं श्रुतिः अनुमानं स्मृति: २.
अन्तःकरणस्य वृत्तिविशेषः । यथा - वृत्तिरूपज्ञानस्य मनोधर्मत्वे च कामः
-
सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्धीभरित्येतत् सर्वं मन एव