This page has been fully proofread once and needs a second look.

शावेदान्तकोशः

ततोऽभूत् त्रिवृदोंकारो यो व्यक्तप्रभवः स्वराट् । यत् तल्लिङ्गं भगवतो ब्रह्मणः
परमात्मनः (तत्रैव ३९) 1 स्वधाम्नः ब्रह्मणः साक्षाद् वाचकः परमात्मनः । स सर्वमन्त्रो-
पनिषद् वेदवीजं सनातनम् (तत्रैव ४१) । तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूह ।
धार्यन्ते यैस्त्रयो भावा गुणानामर्थवृत्तयः (तत्रैव ४२) । (भावा धर्माः गुणाः सत्त्व-
रजस्तमांसि नामानि ऋग्यजुःसामलक्षणानि, अर्थाः भूर्भुवः स्वर्लोकाः वृत्तयः जागरित-
स्वप्नसुषुप्तयः इत्यर्थः) तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान् सोङ्कारान्
चातुर्होत्रविवक्षया (तत्रैव ४३) । ५ ब्रह्मविष्णुरूद्ररूपदेवत्रयात्मकः|, ब्रह्मविष्णुरूद्ररूदेवत्रयात्मक। यथा - अकारो
विष्णुरुद्दिष्टः उकारस्तु महेश्वरः । मकारः प्रजापतिरुक्तस्त्रिवर्णः प्रणवः स्मृतः ।
धर्माधर्मौ तद्विपाकास्त्रयोऽपि क्लेशाः पञ्च प्राणिनामायतन्ते । यस्मिन्नेतैर्नो परामृष्ट
ईशो यस्तं वन्दे विष्णुमोंकारवाच्यम् । (या०स्मृ०मि० मङ्गलश्लोके) कैश्चिदेवमप्युच्यते
यन्निरवयः ॐ इति वैदिक ओम् इति वर्णत्रयात्मकस्तान्त्रिक इति । किन्त्वेतन्न
सर्वमान्यम् - श्रुतिस्मृतिषु समानरूपेणोभयप्राप्तेः । यथा – माण्डूक्योपनिषदि
मात्रात्रयात्मकः ॐकारस्तथा अमात्रकश्चोंकारो वर्णितः सोऽयमात्माऽध्यक्षर-
मोंकारोऽधिमात्रं पादा मात्रा । मात्राश्च पादा अकार उकारो मकार इति ।
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्म-
नात्मानं य एवं वेद (१२) । एवम् अमात्रः ॐ अव्याकृतं ब्रह्म तथा त्रिमात्र ओंकारो
व्याकृतं ब्रह्मेति निर्दिष्टमूंं । ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद्
बृंहणत्वाच्च ब्रह्मेत्यभिधीयते (विष्णुपु० ३।३।२२) । वायुपुराणे शिवपुराणे च लिखितं
यद् उमादेव्या द्वारि द्वारपालरूपेण स्थितस्य श्रीगणेशस्य शिरसि छिन्ने ब्रह्मविष्णुमहेशा
श्रीगणेशमचिन्तयन् तथा श्रीगणेशः ॐ रूपेण आविरभवत् । प्रश्नोपनिषदि ॐ महत्त्वं
वर्णितम् । श्रीगणेशस्य रेखाप्रतीकम् 57 अस्ति । एवं मन्यते यदुपरि शुण्डमुद्रा ततो
दक्षिणवामहस्तयोर्वरदशान्तिमुद्रे तथाधः पादमुद्रा । इदं प्रतीकं शान्तिवरदगणेशस्य ।
विनायकस्य एतद्विपरीतं प्रतीकं भवति । तत्रेत्थम् - मुखं वामदिशि एवं वामहस्तमुद्रा
उर्ध्वाकारा भवति । एवंविधं प्रतीकं दुष्टादिशमनार्थं प्रयुज्यते । गणेशाथर्वशीर्षस्य
स्वीये भाष्ये श्रीसायणाचार्येण लिखितं यद् गणेशस्य प्रतीकं ॐ इति । ब्रह्मणः स्वरूपम्
ॐ इति परमहंसपरिव्राजकोपनिषदि चास्य परं महत्त्वं द्रष्टव्यम् । ६. ओम् इति
स्वीकृत्यर्थे । ७. वेदाध्ययने ॐकारं प्रथममुच्चरेत् तथा भाष्याध्ययने प्रथमम् अथ
इत्युच्चरेत् । यथा - ॐकारं वेदेषु अथकारं भाष्येषु (शु० य० प्रा० १/१८/९) ।
लिङ्गपुराणे पूर्वार्द्ध १८ अध्याये ॐ इत्येव सर्वमिति विशदं वर्णितम् । ॐ प्रणवः स
 
-
 
: