This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
-
 
सप्तकस्य
 
स्थूलशरीरम् - , स्थूलशरीर
पञ्चकर्मेन्द्रियैः पञ्चज्ञानेन्द्रियैः पञ्चप्राणैः मनोबुद्धिभ्यां

पञ्चीकृतपृथिव्यप्तेजोवाय्वाकाशैर्युक्तं शरीरम् । भूम्याद्यतलादिचतुर्दशभुवनात्मक-

ब्रह्माण्डे विवर्तमानं जरायुजाण्डजस्वेदजोद्भिजरूपं चतुर्विधम् । यथा - "एवं

तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्महर्जनस्तपः सत्यात्मकस्योर्ध्वलोक-

सप्तकस्य
अतलवितलसुतलतलातलरसातलमहातलपातालाख्याधोलोकसप्तकस्य

ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः" (वे०प० ७

प०) । अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा

समष्टि-वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडिति

चोच्यते सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च । अस्यैषा समष्टिः स्थूलशरीरमन्न-

विकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते ।

एतद्व्यष्ट्युपहितं चैतन्यं विश्व इत्युच्यते सूक्ष्मशरीराभिमानमपरित्यज्य स्थूलशरीरादि-

प्रविष्टत्वात् । अस्याप्येषा व्यष्टिः स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो

जाग्रदिति चोच्यते (वे० सा० ) । यथा च - " स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलोऽन्न-

संज्ञक: 1 लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह" (प० द० १-३४)।
 
४८९
 
-
 

 
स्पर्शः, स्पर्श
रूपरसादिर्विषयः । यतो हि रूपरसशब्दादयः इन्द्रियैः स्पृश्यन्ते" ।

यथा च – "इन्द्रियैः स्पृशन्त इति स्पर्शाः शब्दादयः" (गी०२।१४ म० सू०) । यथा

च - "ब्रह्मणि स्थितः स्पृशन्त इति स्पर्शाः शब्दादयो विषयाः तेष्वसक्तः प्रीतिवर्जितः

आत्मान्तःकरणं यस्य स आत्मनिष्ठः त्वंपदलक्ष्यं यत्सुखं तद् विन्दते लभते"। (तत्रैव)
 

 
स्फोट: - , स्फोट
स्फुटति अर्थोऽभिव्यज्यतेऽस्मादिति स्फोटः शब्दः । अयं च

स्फोटोऽष्टविधः । अयमेव ब्रह्मेति शब्दाद्वैतवादिनः । वर्णा एव शब्द इति शाङ्करातिनः ।

यथा - "तस्मात् स्फोट एव शब्दः । स चैकैकवर्णप्रत्ययाहितसंस्कारबीजेऽन्त्यवर्णप्रत्यय-

जनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते..... । तस्य च

प्रत्युच्चारणे प्रत्यभिज्ञायमानत्वान्नित्यत्वम्, भेदप्रत्ययस्य वर्णविषयत्वात् ।
 

तस्मान्नित्याच्छब्दात् स्फोटरूपादभिधायकात् क्रियाकारकफललक्षणं जगदभिधेयभूतं

प्रभवतीति । वर्णा एव तु शब्द इति भगवानुपवर्षः" (ब्र० सू०२।३।२८ शा० भा० ) ।

(भगवानुपवर्ष इति कथनेनात्रैव भगवत्पादस्य समादर: ) यथा च वर्णातिरिक्तो

वर्णाभिव्यङ्गयोर्थप्रत्यायको नित्यः शब्दः (सर्व० सं० पृ० ३०० पाणि०) (तर्क० प्र०

ख० पृ० १२६) । अत्र व्युत्पत्तिः स्फुट्यते व्यज्यते वर्णैः इति स्फोटः इति स्फुटत्यर्थो-

स्मादिति स्फोटः इति च यौगिकशब्दाभिधेयत्वं शब्दब्रह्मण: सूचयति (वै०भू० सा०.