This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
....
 
जाख्यचतुर्विधस्थूलशरीराणामुत्पत्तिः (वे० प० ७ १० ) । यथा च - तमः-

प्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादाकाशः आकाशाद्वायुः वायोरग्निरग्नेरा-

पोऽद्भ्यः पृथिवी चोत्पद्यते । तस्माद् वा एतस्मादात्मनः आकाशः सम्भूतः इत्यादिश्रुतेः ।

.. स्थूलभूतानि तु पञ्चीकृतानि, पञ्चीकरणं तु पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवः

.....एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः (वे० सा० ) । यथा च - "अत्रापि

चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिः,

वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडितिचोच्यते

सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च (वे० सा०) । अतो विशदज्ञानार्थं

सृष्टिशब्दो द्रष्टव्यः ।
 
४८८
 
-
 
-
 
-
 
स्थूलभुक् -

 
स्थूलभुक्, स्थूलभुक्
स्थूलं भुङ्क्त इति स्थूलभुक् वैश्वानरः । अवस्थाभेदेन

आत्मनस्त्रीणि रूपाणि – वैश्वानरः जागरितस्थानः स्थूलभुक्, स्वप्नस्थानः प्रवि-

विक्तभुक्, सुषुप्तिस्थानः आनन्दभुक् चेतोमुखः प्राज्ञः । यथा - जागरितस्थानो

बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः (मा० उ० ३ म०) । अत्र

शाङ्करभाष्ये - स्थूलं भुङ्क्त इति स्थूलभुक् वैश्वानरः । यथा – "अथैकोनविंशति-

मुखानि अस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश्च प्राणादयः पञ्च मनो

बुद्धिरहङ्कारश्चित्तमिति मुखानीव मुखानि तान्युपलब्धिद्वाराणि इत्यर्थः । स एवंविशिष्टो

वैश्वानरो यथोक्तैः द्वारैः शब्दादीन्स्थूलान् विषयान् भुङ्ग इति स्थूलभुक् । अत्रैते

श्लोका भवन्ति - वहिष्प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ

एक एव त्रिधा स्मृतः ॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च

हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।

आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत । स्थूलं तर्पयते विश्वं प्रविविक्तं तु

तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्ति निबोधत (मा० उ० का० १ १,२,३,४) ।

यथा च एवं स्थिते जागरणादिव्यवस्थोच्यते । इन्द्रियवृत्तिकालीनोऽर्थोपलम्भो

जागरणम् । तत्र मूर्त्तं विराडाख्यं भोग्यं प्रत्यक्षादिप्रमाणषट्केन व्यवह्रियमाणत्वाद्

व्यावहारिकं विश्वाख्येन जीवेनोपभुज्यते । स हि देहेन्द्रियादिषु प्रवेशाद् व्यापकत्वाद्वां

विश्व इत्युच्यते । विश् प्रवेशने विष्लृ व्याप्तााविति- च स्मरणात् । अथ यद्यपि विश्वेन

अमूर्त्तमव्याकृतं चानुमानादिनानुभूयते तथापि व्यावहारिकं सर्वं विश्वेनैव ज्ञायत

इति नियमात् स्थूलशरीरोपाध्यभिमानित्वाच्च न तस्यावस्थान्तरव्यापकत्वम्

(सि० बि० ८) ।
 
-