This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
लक्षणेन मुनिः स्थितप्रज्ञ उच्यत इत्यर्थः (तत्रैव श्रीधरी) । यथा च - "स्थितप्रज्ञस्य

का भाषा" (गी० २।५४) इत्यादिना स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्य-

सम्बन्धं दर्शयति । तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् ।

नासाववगतब्रह्मात्मभाव इत्यनवद्यम् (ब्र० सू० १/१/४ शाव भा०) । यथा च-

" स्थितप्रज्ञः साधको न तु साक्षात्कारवान् इति मण्डनमिश्रैरुक्तं दूषणमुद्धरति -

स्थितप्रज्ञश्चेति (ब्र० सू० ४।१।१५ वे० क० त० ) । यथा च - "स्थितप्रज्ञश्च

न साधकः, तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् । निरतिशयस्तु स्थितप्रज्ञः,

सच सिद्ध एव ( ब्र० सू० ४/१/१५ भाम० ) ।
 
-
 
४८७
 
-
 

 
स्थिर: : - , स्थिर
योगस्यैकावस्था । यत्र शरीरस्य मूलाधारादारभ्य शिरोग्रीवामूर्ध-

पर्यन्तः शरीरभागो निश्चलो भवेद् योगी च दृढ़प्रयत्लो भवेत् । यथा - "स्थिर:

दृढ़प्रयत्नो भूत्वा" (गी० ६।१३ म० सू०) । यथा च - "काय इति देहमध्यभागो

विवक्षितः । कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धाग्रपर्यन्तं

सममवक्रं निश्चलं धारयन् स्थिरः । दृढ़प्रयत्नो भूत्वा" (तत्रैव श्रीधरी) ।
 
1
 
-
 

 
स्थूलप्रपञ्चोत्पत्तिः , स्थूलप्रपञ्चोत्पत्ति
स्थूलप्रपञ्चस्तावत् पृथिव्यप्तेजोवाय्वाकाशाः । एतेषा-

मुत्पत्तिक्रमः । यथा - अथ जगतो जन्मक्रमो निरूप्यते - तत्र सर्गाधकाले परमेश्वरः

सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमितानिरूपितशक्तिविशेषविशिष्ट-

मायासहितः सन्नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावाकलय्येदं करिष्यामीति

सङ्कल्पयति । तदैक्षत बहुस्यां प्रजायेय (तै० उ० २।६) । इत्यादिश्रुतेः । तत

आकाशादीनि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । इमानि भूतानि

त्रिगुणमायाकार्यरूपाणि । गुणाश्च सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतै-

र्व्यस्तैः पृथक् पृथक् क्रमेण श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्चज्ञानेन्द्रियाणि जायन्ते ।

एतेभ्यः पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्यो मनोबुद्ध्यहंकारचित्तानि जायन्ते ।

श्रोत्रादीनां क्रमेण दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः । मनआदीनां चतुर्णां क्रमेण

चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः । एतैरेव रजोगुणोपेतैः पञ्चभूतैर्वह्नीन्द्रोपेन्द्र-

मृत्युप्रजापतयोऽधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्चवायवः

प्राणापानव्यानोदानसमानाख्या जायन्ते । एवंतमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो

भूम्यन्तरिक्षस्वर्महर्जनस्तपःसत्यात्मकस्योर्द्ध्वलोकसप्तकस्य अतलवितलसुतल-

तलातलरसातलमहातलपातालाख्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भि-