This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
स्थाणुः - , स्थाणु
निष्पन्नः शुष्कवृक्षः स्थाणुः तद्वत् स्थिरो निश्चलो निष्कम्पः आत्मा,

शिवश्च । यथा – "सर्वगतत्वात्स्थाणुः, स्थाणुरिव स्थिरः" (गी० २।२४ शा० भा० ) ।

यथा च – "यतः स्थाणुः पूर्वरूपापरित्यागेन स्थिरभाव:" (तत्रैव नी० क० ) ।
 
४८६
 

 
स्थानम्, स्थान
परमं स्थानं परमं पदं मोक्षः । जीवस्य मुख्यं स्थानं ब्रह्म तदेव
मोक्षः । यथा
-
 
"यत्साख्यैर्ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यं
 
"
 
स्थानम् - परमं स्थानं परमं पदं मोक्षः । जीवस्य मुख्यं स्थानं ब्रह्म तदेव
मोक्षः । यथा- "यत्साख्यैर्ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं

तद्योगैरपि....." (गी० ५/५ शा० भा०) । यथा च - "सर्वोऽपि द्वैतप्रपञ्चो न

वस्तुभूतो मायाविलासत्वादात्मात्वविक्रियोऽद्वितीयो वस्तु सन्निति प्रयोजकज्ञानं

परमार्थज्ञानं तत्पूर्वकसन्यासद्वारेण कर्मभिरपि तदेव स्थानं प्राप्तमित्येकफलत्वं

संन्यासकर्मयोगयोरविरुद्धमित्याह - तैरपीति (तत्रैव आ० गि०) । यथा च – "सांख्यैः

ज्ञाननिष्ठैः संन्यासिभिरैहिककर्मानुष्ठानशून्यत्वेऽपि प्राग्भवीयकर्मभिरेव संस्कृतान्त:-

करणैः श्रवणादिपूर्विकया ज्ञाननिष्ठया यप्रसिद्धं स्थानं तिष्ठत्येवास्मिन्न तु

कदापि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यते आवरणाभावमात्रेण लभ्यत

इव (तत्रैव० म० सू०) । यथा च - "सांख्यैः ज्ञाननिष्ठैः संन्यासिभिः विशुद्धान्तः

करणैर्यन्मोक्षाख्यं स्थानं च्युतिवर्जितं प्राप्यते तत्त्वसाक्षात्कारमात्रेण लभ्यत इति...."

(तत्रैव भाष्यो०)। यथा च - "सांख्यैर्ज्ञाननिष्ठैः सन्यासिभि र्यत् स्थानं मोक्षाख्यं

प्रकर्षेण साक्षादवाप्यते" (तत्रैव श्रीधरी) ।
 
-
 

 
स्थितधीः - , स्थितधी
स्थिरप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं

प्रभाषेत किमासीद् व्रजेन्नु किम् । (गी० २।५४) अत्र यस्य बुद्धिः सुस्थिरा भवति

स स्थितधीः । अयमेव स्थितप्रज्ञ इत्युच्यते । योगविशेष इति । आत्मानात्मज्ञानवान् ।

यथा – "स्थितधीः स्थितप्रज्ञः अर्थाद् व्युत्थितः सन् किं प्रभाषेत कथं वदति"

(नी० क०) । यथा च - "स्थितधीः स्थितप्रज्ञः" (तत्रैव म० सू० ) ।
 
-
 
"
 

 
स्थितप्रज्ञः - , स्थितप्रज्ञ
आत्मानात्मज्ञानवान्, आत्मारामः, मुनिः । यथा - "आत्मानं

जिज्ञासमानो वैराग्यद्वारा सर्वेषणात्यागात्मकं संन्यासमासाद्य श्रवणाद्यावृत्त्या तज्ज्ञानं

प्राप्य तस्मिन्नेवासक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः

स्थितप्रज्ञव्यपदेशभागित्यर्थ:" (गी० २।५५ आ० गि०) । यथा च - "स्थितप्रज्ञः

स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य स विद्वान् तदोच्यते (तत्रैव

भाष्यो०) । यथा च - "आत्मारामः सन् यदा क्षुद्रविषयाभिलाषास्त्यजति तदा तेन