2023-03-12 05:02:10 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
स्थाणुः - निष्पन्नः शुष्कवृक्षः स्थाणुः तद्वत् स्थिरो निश्चलो निष्कम्पः आत्मा,
शिवश्च । यथा – "सर्वगतत्वात्स्थाणुः, स्थाणुरिव स्थिरः" (गी० २।२४ शा० भा० ) ।
यथा च – "यतः स्थाणुः पूर्वरूपापरित्यागेन स्थिरभाव:" (तत्रैव नी० क० ) ।
४८६
-
मोक्षाख्यं
"
स्थानम् - परमं स्थानं परमं पदं मोक्षः । जीवस्य मुख्यं स्थानं ब्रह्म तदेव
मोक्षः । यथा- "यत्साख्यैर्ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं
तद्योगैरपि....." (गी० ५/५ शा० भा०) । यथा च - "सर्वोऽपि द्वैतप्रपञ्चो न
वस्तुभूतो मायाविलासत्वादात्मात्वविक्रियोऽद्वितीयो वस्तु सन्निति प्रयोजकज्ञानं
परमार्थज्ञानं तत्पूर्वकसन्यासद्वारेण कर्मभिरपि तदेव स्थानं प्राप्तमित्येकफलत्वं
संन्यासकर्मयोगयोरविरुद्धमित्याह - तैरपीति (तत्रैव आ० गि०) । यथा च – "सांख्यैः
ज्ञाननिष्ठैः संन्यासिभिरैहिककर्मानुष्ठानशून्यत्वेऽपि प्राग्भवीयकर्मभिरेव संस्कृतान्त:-
करणैः श्रवणादिपूर्विकया ज्ञाननिष्ठया यप्रसिद्धं स्थानं तिष्ठत्येवास्मिन्न तु
कदापि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यते आवरणाभावमात्रेण लभ्यत
इव (तत्रैव० म० सू०) । यथा च - "सांख्यैः ज्ञाननिष्ठैः संन्यासिभिः विशुद्धान्तः
करणैर्यन्मोक्षाख्यं स्थानं च्युतिवर्जितं प्राप्यते तत्त्वसाक्षात्कारमात्रेण लभ्यत इति...."
(तत्रैव भाष्यो०)। यथा च - "सांख्यैर्ज्ञाननिष्ठैः सन्यासिभि र्यत् स्थानं मोक्षाख्यं
प्रकर्षेण साक्षादवाप्यते" (तत्रैव श्रीधरी) ।
-
स्थितधीः - स्थिरप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं
प्रभाषेत किमासीद् व्रजेन्नु किम् । (गी० २।५४) अत्र यस्य बुद्धिः सुस्थिरा भवति
स स्थितधीः । अयमेव स्थितप्रज्ञ इत्युच्यते । योगविशेष इति । आत्मानात्मज्ञानवान् ।
यथा – "स्थितधीः स्थितप्रज्ञः अर्थाद् व्युत्थितः सन् किं प्रभाषेत कथं वदति"
(नी० क०) । यथा च - "स्थितधीः स्थितप्रज्ञः" (तत्रैव म० सू० ) ।
-
"
स्थितप्रज्ञः - आत्मानात्मज्ञानवान्, आत्मारामः, मुनिः । यथा - "आत्मानं
जिज्ञासमानो वैराग्यद्वारा सर्वेषणात्यागात्मकं संन्यासमासाद्य श्रवणाद्यावृत्त्या तज्ज्ञानं
प्राप्य तस्मिन्नेवासक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः
स्थितप्रज्ञव्यपदेशभागित्यर्थ:" (गी० २।५५ आ० गि०) । यथा च - "स्थितप्रज्ञः
स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य स विद्वान् तदोच्यते (तत्रैव
भाष्यो०) । यथा च - "आत्मारामः सन् यदा क्षुद्रविषयाभिलाषास्त्यजति तदा तेन