This page has been fully proofread once and needs a second look.

४८५
 
अहमित्याकारमालयविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च ज्ञानमेतद् द्वयं

दण्डायमानं प्रवाहापन्नं विज्ञानस्कन्ध इत्यर्थः । वेदनास्कन्ध इति भाष्योपादानं या

प्रियेत्यादि तद्व्याख्यानम् । सविकल्पकप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्पक

इति भेदः स्कन्धयोर्ध्वनितः । यथा च - द्वयणुकादयः स्कन्धाः (सर्व० सं० आह०)

(न्या० को०) ।
 
शाङ्कुरवेदान्तकोशः
 

 
स्तुतिः - , स्तुति
गुणाभिधानद्वारा स्वरूपप्रकाशनम् । यथा - "स्तुतिश्च गुणाभिधानेन

स्वरूपप्रकाशनम् । यथा विशालवक्षाः क्षत्रिययुवेति" (ब्र० सू० १/१/४ वे० क०

त०) । १ . (क) गुणवत्तया ख्यापनम् (चि० १ पृ० १०२) । यथा निर्विघ्नसमाप्तिकामो

देवतास्तुतिमाचरेदित्यादौ ग्रन्थे स्तुतिशब्दार्थ: (चि० १ पृ० १००) (वै० सा०

द० पृ० १ )। उत्कर्षवत्तया ज्ञानानुकूलः शब्दः इत्यर्थः । तेन व्यापारान्तरे तादृशि

नातिप्रसङ्गः । अत्र ज्ञानपदेन आरोपितज्ञानं गृह्यते तेन तादृशि स्वरूपाख्याने

नातिव्याप्तिः । भगवस्तुत्यादिषु तप्रयोगो भाक्तः (मू० म० मङ्ग० १ पृ० १०३-

१०४) । (ख) सर्वोत्कृष्टगुणवत्ताप्रतिपादकशब्दः (म० वा० पृ० १०) । (ग)

आरोप्यमाणगुणकथनमिति प्रामाणिका आहुः । (घ) ज्ञानविशेषोपधायकः शब्दः

इति नव्या आहुः (भू० म० मङ्ग० १/१०४) । २. (क) विधेः फलवादलक्षणा या

प्रशंसा सा स्तुतिः । सम्प्रत्यार्थं स्तूयमानं श्रद्धधीत इति । प्रवर्तिका च । फलश्रवणा-

प्रवर्तते (वात्स्या० २।१।६४) । (ख) साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यम्, यथा-

सर्वजिता वै देवाः सर्वमजयन् इति विधेः सर्वव्याप्त्यै सर्वस्य जित्यै सर्वमेवैते

नाप्नोति सर्वं जयति इत्येवमादिवाक्यं स्तुतिः (गौ० वृ० २ । १ । ६४) । यथा वा अहरहः

संध्यामुपासीत इति विधेः- संध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते

यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादवाक्यं स्तुतिः । (ग) विधेयस्तावकं वाक्यम् ।

यथा वायव्यश्वेतमालभेत भूतिकामः इति विधेः वायुर्वै क्षेपिष्ठा देवता वायुमेव

स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति (तैत्तिरीयसंहिता २।१।१ ) (म०

प्र० ४ पृ० ६४) इति इदं वाक्यं हि वायूद्देश्यकः श्वेतपशुकरणको यागः प्रशस्तः

इति प्राशस्त्यबोधनेन विध्यर्थं स्तौति । तथा च विध्युद्देशेनैकवाक्यत्वादर्थवादः

प्रमाणम् (शाब० भा० १।२।७) । (घ) गुणकथनपरमिदं वाक्यम् (जै० न्या०

अ० ९ पा० २ अधि० ३) । ३. स्तोत्रम् । तच्च गुणकर्मादिभिः प्रशंसनम्

(न्यायकोशः) ।