This page has been fully proofread once and needs a second look.

४८४
 
शाङ्कुरवेदान्तकोशः
 
इति । अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्यानुपपत्त्या पदद्वयस्य विशेष्यमात्र-

परत्वम् । यथा तत्त्वमसीत्यादौ (वे० प० ७ प०) ।
 
-
 

 
सोऽहम् - , तद् अस्मद्
अत्र तत्कालैतत्कालविशिष्टयोस्तत्पदार्थाहंपदार्थयोः परस्परविरोधाद्

भागलक्षणया जहदजहल्लक्षणया वा विरुद्धतत्कालैतत्कालविशिष्टाशं विहाय

अविरुद्धमहमंशं लक्षयित्वा वाक्यार्थबोध: सोऽयं देवदत्त इतिवत् ।
 
-
 

 
सोपाधिकम् - , सोपाधिक
ब्रह्म द्विविधम् - सोपाधिकं निरुपाधिकं च । अज्ञानोपाधिकं

ब्रह्म ईश्वरः । उपाधिरहितं शुद्धं ब्रह्म निरुपाधिकम् । यथा - "परस्य सोपाधिकं

निरुपाधिकं च चिद्रूपं ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः । सोपाधिमैश्वरं रूपमशेषजगदात्मकं

विश्वरूपाख्यमधिकृत्याध्यायान्तरमवतारयन्नन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तयति -

तत्र चेति (गी० 9919 आ० गि०) । यथा च - "यथोक्तं वार्तिकसारे" सोपाधि-

र्निरुपाधिश्च द्विधा ब्रह्म समुच्यते । सोपाधिकः स्यात्सर्वात्मा निरुपाख्योऽनुपाधिकः ।

जक्षन्क्रीडन्रतिं प्राप्त इति सोपाधिकस्य तु । छान्दोग्ये सर्वकामाप्तिः सार्वास्यात्स्पष्ट-

मीरिता । अहमन्नं तथान्नादः श्लोककार्यप्यहो अहमइति तत्त्वविदः सामगाने सर्वात्मता

श्रुता। अत्रापि चक्रदृष्टान्तात्सोपाधिस्तत्त्वविच्छ्रुतः। अपूर्वानपराद्युक्त्या श्रोष्यते

निरुपाधिकः । इति (गी० ५/२९ नी० क० ) ।
 

 
सौवः, सौव
स्वीयोऽर्थः । यथा- "लक्षणया वृत्त्या स्वशक्यार्थं परित्यज्याच्यार्थ-

प्रकाशनम् । यथा – स्वस्येदं सौवं स्ववाच्यमर्थं समुज्झति त्यजति जहदजहल्लक्षणया

पदान्तरेण समानार्थं भवतीत्यर्थ:" (सं० शा० १।२१३ अ० टी०) ।
 

 
स्कन्धः - , स्कन्ध
१. बौद्धदर्शने पञ्चस्कन्धा भवन्ति - रूपविज्ञानवेदनासंज्ञा-

संस्काराः । यथा - रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः (ब्र० सू०

२/२/१८ शा० भा०) । अत्र भामत्याम् - रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्त्या

सविषयाणीन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणा पृथिव्यादयो बाह्याः । तथापि

कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो

रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः । वेदनास्कन्धो वा प्रियाप्रियानुभय-

विषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः ।

संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः । यथा- डित्थः कुण्डली गौरो

ब्राह्मणो गच्छतीत्येवं जातीयकः । संस्कारस्कन्धो रागादयः क्लेशा: उपक्लेशाश्च

मदमानादयः धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी । अत्र वेदान्तकल्पतरौ
 
1