This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
४८३
 
प्रजायेय (तै० उ० २।६) । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति
यत्प्रयन्त्यभिसंविशन्ति च (तै० ३।१ ) । इदं सर्वं यदयमात्मा सच्च त्यच्चाभवत्
(तै० उ० २।६) । इत्यादिश्रुत्यनुरोधाज्जगतो निमित्तकारणमुपादानकारणं कर्ता
च परमेश्वरी जगत् सृजते ततश्च तत्तद्विषयदृष्टिर्जायत इति सृष्टिवादः । यथा -
द्विविधेऽपि दृष्टिसृष्टिवादे मनः प्रत्ययमलभमानाः केचिदाचार्याः सृष्टिदृष्टिवादं
रोचयन्ते । श्रुतिदर्शितेन क्रमेण परमेश्वरसृष्टम् अज्ञातसत्तायुक्तमेव विश्वं
तत्तद्विषयप्रमाणावतरणे तस्य तस्य दृष्टिसिद्धिरिति । न चैवं प्रपञ्चस्य कत्पितत्वाभावे
श्रुत्यादिप्रतिपन्नस्य सृष्टिलयादिमतः प्रत्यक्षादिप्रतिपन्नार्थक्रियाकारिणश्च तस्य
सत्यत्वमेवाभ्युपगतं स्यादिति वाच्यम् । शुक्तिरजतादिवत् सम्प्रयोगसंस्कारदोषेण
अधिष्ठानसंस्कारदोषरूपेण वा कारणत्रयेण अजन्यतया कल्पनासमसमयत्वाभावेऽपि
ज्ञानैकनिवर्त्यत्वरूपस्य सदसविलक्षणत्वरूपस्य प्रतिपन्नोपाधिगतत्रैकालिकनिषेध-
प्रतियोगित्वरूपस्य वा मिथ्यात्वस्याभ्युपगमात् । सत्यत्वपक्षे प्रपञ्चे उक्तरूपमिथ्यात्वा-
भावेन ततो भेदात् (सि० ले० सं० २५०) । अनेकजीववादे सृष्टिदृष्टिवादः । अद्वैत-
वेदान्तस्य मुख्ये सिद्धान्ते एकजीववादे दृष्टिसृष्टिवादः । यथा- अज्ञानोपहितं
विम्बचैतन्यमीश्वरः । अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा, अज्ञानानुपहितं शुद्धं
चैतन्यमीश्वरः अज्ञानोपहितं च जीव इति वा मुख्यो वेदान्तसिद्धान्त एकजीव-
वादाख्यः । इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव
स्वाज्ञानवशाज्जगदुपादानं निमित्तं च दृश्यं च सर्वं प्रातीतिकम् । देहभेदाच्च
जीवभेदभ्रान्तिः (सि० वि० १) । यथा च एकजीववादे पक्षे एकमुक्त्या सर्वमुक्ति-
प्रसङ्ग इति चेत्, न, एकत्ववादिनं प्रति सर्वत्वस्य निरूपयितुमशक्यत्वात् । तथापि
वहवो॒ो अनुभवसिद्धा इति चेद् भवतु तर्हि स्वप्नवद् व्यवस्था (वे० सि० मु०) ।
 
-
 
सोऽयं देवदत्तः - अत्र तत्कालैतत्कालविशिष्टयोस्तत्पदार्थदेवदत्तपदार्थयोः परस्पर-
विरोधाद् भागलक्षणया जहदजहल्लक्षणया वा विरुद्धतत्कालैतत्कालविशिष्टांशं विहाय
अविरुद्धं देवदत्तांशं लक्षयित्वा वाक्यार्थवोधः । यथा - तस्माद् यथा - सोऽयं देवदत्त
इति वाक्यं तदर्थो वा तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे विरोधाद्
विरुद्धतत्कालैतत्कालविशिष्टत्वांशं परित्यज्य विरुद्धं देवदत्तांशमात्रं लक्षयति
(वे० सा०) । एवमेव तत्त्वमसि इत्यत्रापि । यथा च - यत्र हि विशिष्टवाचकः
शब्द: एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा । यथा सोऽयं देवदत्त