This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
नवविधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ( भाग०
३।१०।१३-१४) । इत्यादि । मत्स्यपुराणे च मत्स्य उवाच तपश्चचार प्रथमममराणां
पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः । पुराणं सर्वशास्त्राणां प्रथमं
ब्रह्मणा स्मृतम् । नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् । अनन्तरं च वक्रेभ्यो वेदास्तस्य
विनिस्सृताः। मीमांसान्यायविद्याश्च प्रमाणाष्टक-संयुताः (न्यायकोशः) ।
 
४८२
 
सृष्टिक्रमः - तम प्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादाकाश: आकाशा-
द्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते । "तस्माद्वा एतस्मादात्मन आकाशः
सम्भूतः" इत्यादि श्रुतेः। तेषु जाड्याधिक्यदर्शनात्तम प्राधान्यं तत्कारणञ्च । तदानीं
सत्त्वरजस्तमांसि कारणगुणक्रमेण तेष्वाकाशादिषूत्पद्यन्ते । एतान्येव सूक्ष्मभूतानि
तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते
(वे० सा०) । यथा च - अथ जगतो जन्मक्रमो निरूप्यते । तत्र सर्गाधकाले परमेश्वरः
सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमिता निरूपितशक्तिविशेषविशिष्ट
मायासहितः सन्नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावकलय्येदं करिष्यामीति
सकङ्कल्पयति । तदैक्षत बहु स्यां प्रजायेय (छा० ६ । २ । ३ ) । इति सोऽकामयत वहु
स्यां प्रजायेय (तै० २ । ६) इत्यादिश्रुतेः । तत आकाशादीनि पञ्चभूतानि अपञ्चीकृतानि
तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । ......इमानि भूतानि त्रिगुणमायाकार्याणि त्रिगुणानि ।
गुणाः सत्त्वरजस्तमांसि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैः पृथक् पृथक् क्रमेण
श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि पञ्च ज्ञानेन्द्रियाणि जायन्ते । एतेभ्यः पुनराकाशादिगत-
सात्त्विकांशेभ्यो मिलितेभ्यो मनोबुद्ध्यहङ्कारचित्तानि जायन्ते । श्रोत्रादीनां पञ्चानां क्रमेण
दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः । मन आदीनां चतुर्णां क्रमेण चन्द्रचतुर्भुख-
शङ्कराच्युता अधिष्ठातृदेवताः । एतैरेव रजोगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं
वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते । तेषां च क्रमेण वह्नीन्द्रोपेन्द्रमृत्यु -
प्रजापतयोधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवः प्राणापान
व्यानोदानसमानाख्या जायन्ते । ......तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतानि
जायन्ते । "तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा० ६ ।३।३) । इति श्रुतेः
पञ्चीकरणोपलक्षणार्थत्वात् (वे० प० ७ प०) ।
 
सृष्टिदृष्टिबादः - (सृष्टदृष्टिवादः) । यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः ।
तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते (मु० उ० १।१।९) । सोऽकामयत बहु स्यां