2023-03-26 09:10:07 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
-
बिम्बचैतन्यमीश्वरः । अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा अज्ञानानुपहितं शुद्धं
चैतन्यमीश्वरः अज्ञानोपहितं च जीव इति वा मुख्यो वेदान्तसिद्धान्त एकजीव-
वादाख्यः । इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवाशाज्
जगदुपादानं निमित्तं च । दृश्यं सर्वं प्रातीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः
( सि० बि० ) । यथा च - अथ केयं दृष्टिसृष्टि: - १. दृष्टिरेव सृष्टिरिति वा,
२. दृष्टिव्यतिरिक्तसृष्ट्यभावो वा, ३. दृष्टिव्यतिरेकेण सृष्ट्याभावो वा,
४. दृष्टिसामग्रीजन्यत्वं वा, ५. दृष्टिसमानकालीनसृष्टिर्वा, ६. दृष्टिसमानसत्ताक
सृष्टिर्वा, ७. सदसद्विलक्षणत्वं वा, ८. त्रिविधसत्त्ववहिर्भूतत्वे सति असद्विलक्षणत्वं
वा, ९. अज्ञातसत्त्वाभावो वा, १०. ज्ञातैकसत्त्वं वा ।....इति चेत्, न, दोषप्रयुक्तत्व-
निबन्धनस्य ज्ञातैकसत्त्वस्याज्ञातसत्त्वाभावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैक-
सत्त्वस्य वा द्रष्ट्रन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात् (अ० सि० १
प० दृष्टि०) यथा च - भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽय-
मात्मकामस्य का स्पृहा (मा० उ० का० १।९) । यथा च - स्वभावमेके कवयो
वदन्ति कालं तथान्ये परिमुह्यमानः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम्
(श्वे० उ० ६।१) । एवमेव जागरितसृष्टिः स्वप्नसृष्टिः (संध्यसृष्टिः, सन्ध्यं स्वप्नः)
(ब्र० सू० ३।२।१०२) । अद्वैतवेदान्तमुख्यसिद्धान्त एकजीववादे दृष्टिसृष्टिवादः
अनेकजीववादे सृष्टिदृष्टिवादः । १. उत्पत्त्यनुकूलव्यापारविशेषः । यथा - ससर्ज
भगवानादौ त्रीन् गुणान् प्रकृतेः परः । महत्तत्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् ।
महत्तत्त्वादहङ्कारं ससर्ज शिवविग्रहम् । दैवान् देहान् मनः खानि खं च स त्रिविधात्ततः ॥
आकांशादसृजद्वायुं वायोस्तेजो व्यजीजनत् । तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥
ततः कूटस्थम-सृजद्विधिं ब्रह्माण्डविग्रहम् । तस्मिंस्तु भगवान् भूयो भुवनानि चतुर्दश
(मणिमञ्जरी स० १ श्लो० २-५) । इत्यादौ सृज् धात्वर्थः सृष्टिः । स
च व्यापारो जगदुत्पत्तावीश्वरेच्छारूपः । घटाद्युत्पत्तौ तु कुलालादीनां कर्मादिः ।
अत्र तदैक्षत वहुस्यां प्रजायेय (छान्दो० उ० ६ ।२।३) । तत्सृष्ट्वा तदेवानुप्राविशत्
(तैति० उ० २।६।९)। इत्यादिश्रुतयोऽनुसन्धेयाः । मनुराह - ततः स्वयंभूर्भगवान्
व्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ सोऽभिध्याय
शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु बीजमवासृजत् ॥
(मनु० अ० १ श्लो० ६-८) । इत्यादि । पौराणिका नवविधं सर्गं जगुः - सर्गो
४८१