This page has been fully proofread once and needs a second look.

४८०
 
शावेदान्तकोशः
 
एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् । इयं बुद्धिर्ज्ञानेन्द्रियैः सहितविज्ञानमयकोशो

भवति ।अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी व्यवहारिको

जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहित सन्मनोमयकोशो भवति । कर्मेन्द्रियाणि

वाक्पाणिपादपायूपस्थाख्यानि । एतानि पुनराकाशादीनां रजोऽंशेभ्यो व्यस्तेभ्यः

पृथक्-पृथक् क्रमेणोत्पद्यन्ते (वे० सा० ) । यथा च - "एतत् कोशत्रयं मिलितं सत्

सूक्ष्मशरीरमित्युच्यते । यथा च पूर्वोक्तैरपञ्चीकृर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं

मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं

जायते । तदुक्तम्- पञ्चप्राण-मनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं

सूक्ष्माङ्गं भोगसाधनम् । तच्च द्विविधं परमपरं
च । तत्र परं

हिरण्यगर्भलिङ्गशरीरमपरमेस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरीरं

महत्तत्वमस्मदादिलिङ्गशरीरमहङ्कार
 
L
 
इत्याख्यायते (वे० प० ७ प०) ।
 
-
 

 
सूत्रात्मा - , सूत्रात्मन्
हिरण्यगर्भाख्यः प्रथमः पुरुषः । समष्ट्युपहितचैतन्यात्मकः सर्वजीवात्मकः

सूत्ररूपेण सर्वेषां चालकः । यथा- "तस्मादव्याकृतात् व्याचिकीर्षितादन्नात्प्राणो

हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणो जायते (ब्र० सू०

१।१।५ भाम०) । यथा च - "मणीनामिव सूत्रं जगतो विधारकः सूत्रात्मा" (वे०

क० त० ) । यथा च - "एवं समष्ट्युपहितं चैतन्यं सदात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते

सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च (वे० सा० ) ।
 
-
 

 
सृक्का, सृक्का
१ . शब्दवती रत्नमयीमाला । २. अकुत्सिता गर्भमयी गतिः । यथा

सृक्कां चेमामनेकरूपां गृहाण (क० उ० १ । १६) । सृक्कां शब्दवतीं रत्नमयीं मालाम्

...... यद्वा अकुत्सितां गतिं कर्ममयीम् (तत्रैव शा० भा० ) ।
 
-
 
-
 

 
सृष्टिः, सृष्टि
एकोऽहं बहुस्याम्, तदैक्षत तदसृजत् इत्यादिश्रुत्यनुरोधात्परमात्मनो

दृष्टिरेव सृष्टिः । अथवा सृष्टिरेव दृष्टिः । दृष्टिवादः सृष्टिवादः उभावपि स्तः ।

परमात्मनो लीलामात्रम् । प्राणिनां भोगार्थमदृष्टकर्मवशा परमात्मनि सिसृक्षालीला

जायते । तथा अविद्यावशात् मूलातूलाविद्याभ्याम् आक्षेपविक्षेपशक्तिभ्यामाविद्यकं

जगद्भाति । इयमेव सृष्टिरुच्यते । यथा - "जीवभ्रान्त्या पर ब्रह्म जगद्बीजमजूधुषत् ।

वाचस्पतिः परेशस्य लीलासूत्रमलूलुपत् । प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः ।

पुमान् क्रीडेद् यथा ब्रह्म तथा जीवस्थविक्रियाः ॥ एवं वाचस्पतेर्लीला लीलासूत्रीयसङ्गतिः ।

अस्वतन्त्रत्ववतः क्लिष्टा प्रतिबिम्बेशवादिनाम् (ब्र० सू० २।१।३३ वे० क० त०