2023-03-12 05:02:09 by ambuda-bot
This page has not been fully proofread.
४८०
शावेदान्तकोशः
एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् । इयं बुद्धिर्ज्ञानेन्द्रियैः सहितविज्ञानमयकोशो
भवति ।अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानत्वेनेहलोकपरलोकगामी व्यवहारिको
जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहित सन्मनोमयकोशो भवति । कर्मेन्द्रियाणि
वाक्पाणिपादपायूपस्थाख्यानि । एतानि पुनराकाशादीनां रजोऽंशेभ्यो व्यस्तेभ्यः
पृथक्-पृथक् क्रमेणोत्पद्यन्ते (वे० सा० ) । यथा च - "एतत् कोशत्रयं मिलितं सत्
सूक्ष्मशरीरमित्युच्यते । यथा च पूर्वोक्तैरपञ्चीकृर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं
मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसंयुक्तं
जायते । तदुक्तम्- पञ्चप्राण-मनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं
सूक्ष्माङ्गं भोगसाधनम् । तच्च द्विविधं परमपरं
च । तत्र परं
हिरण्यगर्भलिङ्गशरीरमपरमेस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरीरं
महत्तत्वमस्मदादिलिङ्गशरीरमहङ्कार
L
इत्याख्यायते (वे० प० ७ प०) ।
-
सूत्रात्मा - हिरण्यगर्भाख्यः प्रथमः पुरुषः । समष्ट्युपहितचैतन्यात्मकः सर्वजीवात्मकः
सूत्ररूपेण सर्वेषां चालकः । यथा- "तस्मादव्याकृतात् व्याचिकीर्षितादन्नात्प्राणो
हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणो जायते (ब्र० सू०
१।१।५ भाम०) । यथा च - "मणीनामिव सूत्रं जगतो विधारकः सूत्रात्मा" (वे०
क० त० ) । यथा च - "एवं समष्ट्युपहितं चैतन्यं सदात्मा हिरण्यगर्भः प्राणश्चेत्युच्यते
सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च (वे० सा० ) ।
-
सृक्का – १ . शब्दवती रत्नमयीमाला । २. अकुत्सिता गर्भमयी गतिः । यथा
सृक्कां चेमामनेकरूपां गृहाण (क० उ० १ । १६) । सृक्कां शब्दवतीं रत्नमयीं मालाम्
...... यद्वा अकुत्सितां गतिं कर्ममयीम् (तत्रैव शा० भा० ) ।
-
-
सृष्टिः – एकोऽहं बहुस्याम्, तदैक्षत तदसृजत् इत्यादिश्रुत्यनुरोधात्परमात्मनो
दृष्टिरेव सृष्टिः । अथवा सृष्टिरेव दृष्टिः । दृष्टिवादः सृष्टिवादः उभावपि स्तः ।
परमात्मनो लीलामात्रम् । प्राणिनां भोगार्थमदृष्टकर्मवशा परमात्मनि सिसृक्षालीला
जायते । तथा अविद्यावशात् मूलातूलाविद्याभ्याम् आक्षेपविक्षेपशक्तिभ्यामाविद्यकं
जगद्भाति । इयमेव सृष्टिरुच्यते । यथा - "जीवभ्रान्त्या पर ब्रह्म जगद्बीजमजूधुषत् ।
वाचस्पतिः परेशस्य लीलासूत्रमलूलुपत् । प्रतिबिम्बगताः पश्यन् ऋजुवक्रादिविक्रियाः ।
पुमान् क्रीडेद् यथा ब्रह्म तथा जीवस्थविक्रियाः ॥ एवं वाचस्पतेर्लीला लीलासूत्रीयसङ्गतिः ।
अस्वतन्त्रत्ववतः क्लिष्टा प्रतिबिम्बेशवादिनाम् (ब्र० सू० २।१।३३ वे० क० त०