2023-03-19 14:06:54 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाप्नोति ह वै सर्वान् कामानादिश्च भवति
य एवं वेद ( तत्रैव ९) । स्वप्रस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वा-
द्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति - नास्याब्रह्मवित् कुले भवति य एवं
वेद् । (तत्रैव १०)। सुषुप्तस्थानो मकारस्तृतीया मात्रा मितेरमितेर्वा मिनोति ह वा
इदÛ सर्वमपीतिश्च भवति य एवं वेद (तत्रैव ११) । परमाचार्यैः श्रीगौडपादस्वामिभिरे-
तदुपनिषदर्थः स्वीयकारिकास्वेवं निबद्धः - अत्र प्रणवमात्रा कारिकाः । अत्रैते श्लोकाः
भवन्ति– विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ स्यादाप्ति-
सामान्यमेव च ( मा० का० १९) । तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रा-
सम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् (तत्रैव २०) । मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च (तत्रैव २१) । त्रिषु धामसु यस्तुल्यं सामान्यं
वेत्ति निश्चितः । सं पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः (तत्रैव २२) । अकारो
नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः (तत्रैव
२३) । अत्र सावयवस्य समात्रस्य सपादस्य वा ओंकारस्यार्थः प्रदर्शितः । अतः परं
निरवयवस्य अमात्रस्य अपादस्य ॐ इत्यस्यार्थ एवं निर्दिष्टः- अमात्रश्चतुर्थोऽव्यवहार्यः
प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद (मा०
उ० १२) । अत्रैव कारिकाः - अथ प्रणवकारिकाः अत्रैते श्लोकाः भवन्ति - ओंकारं
पादशो विद्यात् पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत्
(गौ०पा०का० २४) । युञ्जीत प्रणवं चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य
न भयं विद्यते क्वचित् । (२५) प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अपूर्वोऽन्तरोऽ-
बाह्योऽनपरः प्रणवोऽव्ययः (२६) । सर्वस्य प्रणवो ह्यादेर्मध्यमान्तस्तथैव च । एवं
हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् (२७) । प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये
स्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति (२८) । अमात्रोऽनन्तमात्रश्च
द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः (२९) । ६. स्फोटः
आन्तरप्रणवरूपः। यथा - स चायं स्फोट आन्तर प्रणवरूप एव । ओंकार एव
सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति इति श्रुतेः । बह्वी
वाक्यपदादिरूपा घटपदादिरूपा च । अकार इति श्रुत्यन्तरे पाठः । तत्राप्यवयवद्वारा
प्रणवो लक्षणम् (वै०सि०ल०म० स्फोट नि०) । यथा च - समाहितात्मनो ब्रह्मन् ब्रह्मणः
परमेष्ठिनः । हृदयाकाशादभून्नादो वृत्तिरोधाद् विभाव्यते (भाग० १२/६।३७) ।