This page has been fully proofread once and needs a second look.

शाकुरवेदान्तकोशः
 
४७९
 
३।२।७ भाम०) । उत्थितः सन् अविद्यालेशेन पुनः जीवभावमापद्यते । विशद-

ज्ञानाय ब्र० सू० ३।२।७।
 
-
 

 
सुषुप्त्यवस्था , सुषुप्त्यवस्था
एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य जीवस्य तदुभयकारणकर्मक्षये

ज्ञानशक्त्यवच्छिन्नस्य सवासनान्त करणस्य कारणात्मनाऽवस्थाने सति विश्रामस्थानं

सुषुप्त्यवस्था । न किञ्चिदवेदिषमिति कारणमात्रोपलम्भः सुषुप्तिः । तत्र जाग्रत्स्वप्न-

भोग्यपदार्थज्ञानाभावेऽपि साक्ष्याकारं सुखाकारमवस्थाज्ञानाकारं चाविद्याया

वृत्तित्रयमभ्युपेयते (सि० वि० ८) ।
 

 
सूक्ष्मम् - , सूक्ष्मम्
१. अत्यल्पः लघुः पदार्थः । यथा अणुपरिमाणयुतः परमाण्वादिः।

यथा वा अध्यात्मपदार्थः सूक्ष्मशरीरम् । यथा वा केषाञ्चिद्वेदान्तिनां मते अपञ्चीकृतानि

पृथिव्यादीनि पञ्चमहाभूतानि सूक्ष्माणि तन्निर्मितं शरीरं सूक्ष्मशरीरम् । तदुक्तम्

पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनमिति ।

इदं च लोकान्तरगामि भोगोपभोगसमर्थं लिङ्गशरीरमित्युच्यते । सांख्यास्तु महदहङ्कारैका-

दशेन्द्रियपञ्चतन्मात्राणां समुदायः सूक्ष्मशरीरम् । शन्तघोरमूढैरिन्द्रियैरन्वितत्वात् विशेषः

इति प्रतिपेदिरे (सांख्य० कौ० कारि० ४०) । अत्रोक्तम्- सूक्ष्मास्तेषां नियता

मातापितृजा निवर्तन्ते (सांख्य० का० श्लो०- ३९) इति ।
 

 
सूक्ष्मशरीरम् - , सूक्ष्मशरीर
परलोकयात्रानिर्वाहकं सूक्ष्मशरीरं भवति । यत्र दशेन्द्रियाणि

पञ्चप्रा॒णाः मनोबुद्धिश्च भवन्ति । सप्तदशाङ्गैर्युक्तमिदं सूक्ष्मशरीरम् । इदं लिङ्गशरीर-

मप्युच्यते । यथा - कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते स सप्तदशकेनापि

राशिना युज्यते पुनः (ब्र० सू० २।३।४७) । यथा च - "पूर्वोक्तैरपञ्चीकृतैर्लिङ्गशरीरं

परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायिमनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चकर्मेन्द्रिय-

पञ्चकप्राणादिपञ्चकसंयुक्तं जायते । तदुक्तं - पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।

अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् (वे० प० ७ प०) । यथा च-

"बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते

(प० द० १ । २३) ।
 

 
सूक्ष्मशरीरोत्पत्तिः - , सूक्ष्मशरीरोत्पत्ति
(लिङ्गशरीरोत्पत्तिः) । सूक्ष्मशरीराणि सप्तदशावयवानि

लिङ्गशरीराणि च । अवयवास्तु ज्ञानेन्द्रियपञ्चकं, बुद्धिमनसी, कर्मेन्द्रियपञ्चकं,

वायुपञ्चकञ्चेति । ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि । एतान्याकाशादीनां

सात्विकांशेभ्यो व्यस्तेभ्यः पृथक्-पृथक् क्रमेणोत्पद्यन्ते । बुद्धिर्नाम निश्चयात्मिकान्त:-

करणवृत्तिः । मनो नाम संकल्पविकल्पात्मिकान्तःकरणवृत्तिः । अनयोरेव

चित्ताहङ्कारयोरन्तर्भावः । एते पुनराकाशादिगतसात्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते ।