This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
चोच्यते (वे० सा० ) ।
(नील० गु० पृ० ३८ ) । स च प्रदेश:
 
यथा च- (क)
 
एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति
चोच्यते (वे० सा० ) । यथा च- (क)
प्रदेशविशेषावच्छिन्नस्थितमनःसंयोगः
 
-
 
-
 
(नील० गु० पृ० ३८ ) । स च प्रदेश:
पुरीतदात्मकः । (ख) निद्रानाड्यवच्छिन्नात्ममनोयोगः (कृष्णम्) । (ग) पुरीतता मनसः

संयोगः । यथा – पुरुषः सुप्तः स्वप्नया चरति । तौ ह सुप्तं पुरुषमाजग्मतुः (कौषीतः

४।१५-१९)। इत्यादौ स्वप्धात्वर्थः स्वापः । स एव सुषुप्तिः । सुषुप्तेरुत्पत्ति-

माहुर्नव्याः । प्रथमं सुषुप्त्यनुकूलमनः क्रियया पुरीतद्व्यतिरिक्तात्मप्रदेशान्मनसो

विभागः । ततस्तत्संयोगनाशः । ततः पुरीतदात्मकोत्तरदेशेन मनसः संयोग उत्पद्यते ।

सैव सुषुप्तिः (दि० १।३ पृ० ११५) इति । अत्रेदं बोध्यम् । सुषुप्तौ न किंचिदपि

ज्ञानमुत्पद्यते । सुषुप्तिकाले पुरीतति त्वगिन्द्रियाभावेन तत्र स्थितमनसस्त्वक्संयोगा-

सम्भवात् । यत्तु विदुषामसत्सु विषयानुस्मरणेच्छासङ्कल्पेष्वाविर्भवति तत् विद्याशम-

सन्तोषधर्मविशेषनिमित्तम् (प्रशस्त० २ पृ० ३२) इति । अनित्येच्छानधीनेच्छाविषयः

(प्र० प्र०) । (ङ) सुखत्वसामान्यवत् । इदं च जीवेश्वरसुखसाधारणलक्षणमिति

विज्ञेयम्'। (च) निरुपाध्यनुकूलवेद्यम् । अत्र अनुकूलमिच्छाविषयः उपाधिः प्रयोजकः

इत्यर्थ: (प० च० पृ० ३०) । (छ) सर्वात्मनामनुकूलवेदनीयम् (त० भा०) (त०

सं०) । अत्रानुकूलत्वं चेष्टत्वम् (सि० च०) । तथा च यदनुभवाय चित्तमनुकूलं भवति

ततदित्यर्थः इति कश्चिदाह । तन्न । इच्छाविषयत्वेन ज्ञानविषय इति तु वयं ब्रूमः ।

पुरीतद्भिन्नदेशावच्छिन्नमनः संयोगस्य ( त्वद्मनःसंयोगस्य) । ज्ञानसामान्यं प्रति-

कारणत्वात् (राम० १ पृ० ११४-११५) इति । पुरीतत् अत्र इत्याख्यो नाड़ीविशेषः

इति ज्ञेयम् ( अमरः २ ।६।६६) । अत्र श्रुतिः । अथ यदा सुप्तो भवति तदा न कस्यचन

(न कञ्चन) वेद । हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ।

ताभिः प्रत्यवसृत्य पुरीतति शेते (शतपथ ब्रा० १४ बृ० उ० २।१।१९) । यत्रैतत्पुरुषः

सुप्तः स्वप्नं (स्वप्नसृष्टं फलम्) । न कञ्चन पश्यति (कौषीत० उप० ३।३ ) ।

तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति (छान्दो ० उ० ८।६।३)।

इत्यादि । मायावादिवेदान्तिनस्तु (छ) ज्ञानशून्यो जीवस्यावस्थाविशेष इत्याहुः । अत्र

श्रुतिः- यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति। (तत् सषुप्तमिति)

(बृ० उ० ४/३/१९) इति । (न्यायकोशः) ।
 
-
 
४७८
 
-
 
-
 

 
सुषुप्तिस्थानम् - , सुषुप्तिस्थानम्
यथा- अथ तु परमात्मैव नाडीपुरीतत्सृप्तिद्वारा सुषुप्ति-
-

स्थानम् । ततो विपरीतज्ञाननिवृतेरस्ति मात्रया परमात्मभाव उपयोगः (ब्र० सू०