2023-03-26 09:19:05 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्कुरवेदान्तकोशः
-
सुषुप्तावपि दुःखमुपपद्यते । तथा हि प्रमाज्ञानं जाग्रज्जगत् । शुक्तिरजतादिविभ्रमो
जाग्रत्स्वप्नः । श्रमादिना स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्न-
जाग्रत् स्वप्नेऽपि स्वप्नो मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः । जाग्रद्दशायां कथयितुं
न शक्यते स्वप्नावस्थायां च यत् किञ्चिदनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुषुप्त्यव-
स्थायामपि सात्त्विकी या सुखाकारा वृत्तिः सा सुषुप्तिजाग्रत् । तदनन्तरं
सुखमहमस्वाप्समिति परामर्शः । तत्रैव या राजसी वृत्तिः सा सुषुप्तिस्वप्नः ।
तदनन्तरमेव दुःखमहमस्वाप्समिति परामर्शोत्पत्तिः । तत्रैव - या तामसी वृत्तिः सा
सुषुप्तिः । तदनन्तरं गाढं मूढोऽहमिति परामर्शः । यथा चैतत् तथा वासिष्ठवार्त्तिका-
मृतादौ स्पष्टम् (सि० बि० ८)।
४७७
-
-
सुषुप्तस्थानः
सुषुप्त्यवस्थापन्नो जीवः । यथा - यत्र सुप्तो न कञ्चन कामं
कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः (मा० उ० ५ म० ) । अत्र
शाङ्करभाष्यम् – जाग्रत्स्वप्नेतरसुषुप्तं स्थानं यस्य सः । सुषुप्ति अवस्थावान् व्यापार-
शून्य इत्यर्थः । पूर्वाभ्यां सुषुप्तं विभजते । यत्र यस्मिन्स्थाने काले वा सुप्तो न कञ्चन
स्वप्नं पश्यति न कञ्चन कामं कामयते । न हि सुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्षणं
स्वप्नदर्शनं कामो वा कश्चन विद्यते । अत्र श्रीगौडपादकारिका - बहिष्प्रज्ञो विभुर्विश्वो
ह्यन्त प्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः (विश्वादि-
व्यवस्था - १ ) ।
-
सुषुप्तिः
जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयेऽन्यतमावस्था । यस्यां ज्ञानेन्द्रिय
·
कर्मेन्द्रियैः सह मनोऽपि पुरीतति नाड्यां विश्राम्यति । अस्यामस्थायां किञ्चिदपि
वैषयिकं ज्ञानं नावतिष्ठते । निर्विषयशुद्धानन्दघनोऽनुभूयते । जागरितानन्तरं देही
अनुभवति सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति । जागरितानन्तरमविद्यातमः पुनः
प्रसरति । यथा च - "अविद्यावृत्तिमत्यां सुषुप्तौ अतिव्याप्तिवारणायान्तःकरणेति ।
सुषुप्तिर्नामाविद्यागोचराविद्यावृत्त्यवस्था । जाग्रत्स्वाप्रयोरविद्याकारवृत्तेरन्तः करण-
वृत्तित्वान्न तत्रातिव्याप्तिः (वे० प० ७ प०) । यथा च - "अहङ्कारे सति सुषुप्ति-
'व्याधातात् तदभावे चाहमज्ञ इति विशेषाकारेणाज्ञानाभिव्यक्त्यभावात्सुषुप्तौ
विद्यमानमप्यज्ञानमविद्यमानसमं विक्षेपाभावादिति तत्राज्ञानाभाववचनमप्युपपन्नमेवेत्य-
भिप्राय: (सं० शा० ३।१२३ अ० टी०) । यथा च - "सर्वोपरमत्त्वात् सुषुप्तिरत