This page has been fully proofread once and needs a second look.

४७६
 
शावेदान्तकोशः
 
-
 
बोधो जायते । जागरिते सति जीवः पुनरविद्यांशैराव्रियते । यथा च - स्वप्नावस्था

परीक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते । तत्रैताः सुषुप्तिविषयाः श्रुतयो भवन्ति ।

क्वचिच्छूयते तद् यत्रैतत् सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा

नाडीषु सृप्तो भवति (छा० उ० ८ । ६ । ३) । अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते - ताभिः

प्रत्यवसृत्य पुरीतति शेते (बृ० उ० २।१।१९) इति । तथान्यत्र नाडीरेवानुक्रम्य तासु

तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति (कौषी०

४।१९)। इति तथान्यन्त्र - य एषोऽन्तर्हदय आकाशस्तस्मिञ्शेते (बृ० उ०

२।१।१७) इति । तथान्यत्र - सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति

(छा० उ० ६।८।१) इति । प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्च न वेद नान्तरम्

(बृ० उ० ४।३।२१) इति च । तत्र संशयः - किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि

भिन्नानि सुषुप्तिस्थानान्याहोस्वित् परस्परापेक्षयैकं सुषुप्तिस्थानमिति । किं तावत्

प्राप्तम् । भिन्नानीति । कुतः एकार्थत्वात् । नह्येकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते

ब्रीहियवादीनाम् । नाड्यादीनां त्वेकार्थतासुषुप्तौ दृश्यते- नाडीषु सृप्तो भवति (छा०

उ० ८।६।३) । पुरीतति शेते (बृ० उ० २।१।१९) इति च तत्र तत्र सप्तमीनिर्देशस्य

तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते - सता सोम्य तदा सम्पन्नो भवति

(छा० उ० ६।८।१) । इति नैष दोषः । तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् ।

वाक्यशेषो हि तत्रायतनैषी जीवः सदुपसर्पतीत्याह- अन्यत्रायतनमलब्ध्वा प्राणमेवोप-

श्रयते (छा० ६।८।२) इति । प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् । आयतनं

च सप्तम्यर्थः । सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते - सति सम्पद्य विदुः सति

सम्पद्यामहे इति (छा० उ० ६ । ९ ।२) । यथा च - एवं जाग्रत्स्वप्नभोगद्वयेन श्रान्तस्य

जीवस्य तदुभयकारणकर्मक्षये ज्ञानशक्त्यवच्छिन्नस्य सवासनान्तःकरणस्य कारणात्म-

नाड वस्थाने सति विश्रामस्थानं सुषुप्त्यवस्था । न किञ्चिदवेदिषमिति कारणमात्रोपलम्भः

सुषुप्तिः । तत्र जाग्रत्स्वप्नभोग्यपदार्थज्ञानाभावेऽपि साक्ष्याकारं सुखाकारमवस्थाऽ-

ज्ञानाकारं चाविद्याया वृत्तित्रयमभ्युपेयते । तदेवं सुषुप्त्यवस्थामस्त्यानन्दभोगः ।

तद्भोक्ता च सुषुप्त्यवस्थाभिमानी प्राज्ञ इत्युच्यते । प्रकर्षेण अज्ञत्वात् । तदानीं

विशेषावच्छेदाभावेन प्रकृष्टज्ञत्वाद् वा । तदा चान्तःकरणस्य लयेऽपि तत्संस्कारा-

वच्छेदान्न जीवाभावप्रसङ्गः । न वा सर्वज्ञत्वापत्तिः । ननु दुःखमहमस्वाप्समिति

कस्यचित् कदाचित्परामर्शात् सुषुप्तौ दुःखानुभवोऽप्यस्तु ।न, तदानीं दुःखसामग्रीविरहेण

तदभावात् । सुखस्य चात्मस्वरूपत्वेन नित्यत्वात् । शय्यादेरसमीचीनत्वेन च दुःखमित्युप-
...
 
-
 
….....