This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
४७५
 
सुखस्य दुःखाभेदमाहुः। अनुग्रहाभिष्वङ्गनयनप्रसादोऽपि सुखस्य कार्यमिति प्रशस्त-

पादाचार्यादयः (वै० उ० १०/१/१ पृ० ४१७) । अत्र भाष्यम् । अनुग्रहलक्षणं सुखम् ।

स्वर्गाद्यभिप्रेतविषयसानिध्ये सति इष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्ममनसोः

संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम्, तदिदमतीतेषु विषयेषु

स्रक्चन्दनादिषु स्मृतिजम् । अनागतेषु संकल्पजम् ।
 

 
सुपथः सुपथ
परलोकमार्गः । अर्चिमार्गः । येन उत्तरायणे मृताः उत्तमलोकं ब्रजन्ति ।

यथा - "दक्षिणमार्गनिवृत्त्यर्थम्" ( ई० उ० १७ शा० भा० ) ।
 

 
सुपथा - , सुपथा
"सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम्"

( ई० उ० १८ शा० भा० ) ।
 
-
 
-
 

 
सुप्तः - , सुप्त
जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयेऽन्यतमः । यत्र ज्ञानेन्द्रियकर्मेन्द्रियक्रिया-

विरामो जायते । यथा - इन्द्रियाजन्यविषयगोचरापरोक्षान्तः करणवृत्त्यवस्था

स्वप्नावस्था । जाग्रदवस्थाव्यावृत्यर्थम् इन्द्रियाजन्येति । अविद्यावृत्तिमत्यां सुषुप्तौ

अतिव्याप्तिवारणाय अन्तःकरणेति (वे० प० ७ प०) । यथा च - स्वप्नस्थानोऽन्तःप्रज्ञः

सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः (मा० उ० ४ म०) ।

सोऽयमात्मा चतुष्पात् (मा० उ० २ म०) । इत्यनुसारमात्मा जागरितादिभेदेन

चतुष्पात् । स्वप्नस्थानो द्वितीयपात् । यथा च सुप्तोत्थितस्य सौषुप्ततमोबोधो

भवेत्स्मृतिः । सा चावबुद्धविषयाऽवबुद्धं तत्तदा तमः । एवमवस्थाद्वये ज्ञानस्यैकत्वं

प्रसाध्य सुषुप्तिकालीनस्यापि तस्य तेनैक्य प्रसाधनाय तत्र तावज्ज्ञानं साधयति

सुप्तेति (प० द० १-५)।
 

 
-
 

 
सुषुप्तः - , सुषुप्त
जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयेऽन्यतमावस्था सुषुप्तिः, तामापन्नः सुषुप्तः ।

यत्र ज्ञानेन्द्रियैः कर्मेन्द्रियैः सह मनः पुरीतति नाड्यां विश्राम्यति । यथा - "अथ

यदा सुषुप्तो भवति यदा न कस्यचन वेद हितानामनाड्यो द्वासप्ततिः सहस्राणि हृदयात्

पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृत्य पुरीतति शेते स यथा कुमारो वा महाराजो

वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते (बृ० उ०२।१।१ ) ।

अथ यदा सुषुप्तो भवति- स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव । अथ पुनर्यदा

हित्वा दर्शनवृत्तिं स्वप्नं यदा च यस्मिन् काले सुषुप्तः सुष्टु सुप्तः सम्प्रसादं स्वाभाव्यं

गतो भवति सलिलमिवान्यसम्बन्धकालुष्यं हित्वा स्वाभाव्येन प्रसीदति । कदा सुषुप्तो

भवति । यदा यस्मिन् काले न कस्यचन न किञ्चनेत्यर्थः वेद विजानाति (तत्रैव

शा० भा०) । सुषुप्त्यनन्तरं जागरिते सति सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति