2023-03-26 09:28:01 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शारवेदान्तकोशः
(तत्रैव म० सू०) । सुखं द्विविधम् - सुखदुःखाभावौ मुख्यं प्रयोजनम् । तदन्यतरसाधनं
गौणं प्रयोजनम् । सुखं च द्विविधम् सातिशयं निरतिशयं चेति । तत्र सातिशयं सुखं
विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः (वे० प० ७ प्र०) ।
-
यथा च - सत्यज्ञानसुखात्मक: (अ० सि० मङ्गलश्लोके) । अत्र गौडब्रह्मानन्दयाम्-
तत्राह – सत्यज्ञानसुखात्मक इति । यथात्मन आनन्दत्वेनानन्दरूपं मोक्षं प्राप्त इव
•
इत्युक्तमत एवानन्दावाप्तिबोधकश्रुतेरनावृत्तानन्दैक्यमर्थो नत्वानन्दसम्बन्धः । तथा
प्रकाश-रूपत्वेन विष्णोः प्रकाशत इत्यस्यानावृतचिदभेदबोधकत्वम् । न तु प्रकाशसम्बन्धार्थ
कत्वम् । तथा च दृश्यत्वाभावाद् न मिथ्यात्वापत्तिः।
यथा च - "सुखादुःखासहम्" (सं० शा० १ । २६६ सु० टी०) । १. (गुण:)
(क) धर्ममात्रासाधारणकारणगुण: (सि० च० गणनि० पृ० ३५) (त० कौ०) । सुखं
तु जगतामेव काम्यं धर्मेण जन्यते । तथा च धर्मत्वेन सुखत्वेन कार्यकारणभावः (भा०
प० गु० श्लो० १४६) । अयं च धर्मसुखयोः सामान्यकार्यकारणभावः प्राचां
मतेनोक्तः । नवीनमते तु नित्यं विज्ञानमानन्दं ब्रह्म इति श्रुत्या भगवति नित्यसुख-
सिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वं सुखत्वावन्तरजातिर्वा इति बोध्यम्
(दि० गु० पृ० २२०) । सुखस्य लक्षणं तु सुख्यहमित्याद्यनुव्यवसायगम्यसुखत्वं
जातिविशेषः (त० दी०) । यद्वा काम्यभावत्वम् । अथ वा इतरेच्छानधीनेच्छाविषयत्वे
सति भावत्वम् (न्या० बो०) । दुःखाभावस्य काम्यत्वेऽपि स्वतः पुरुषार्थत्वेऽपि च तस्य
भावत्वाभावान्नातिव्याप्तिः । (ख) इतरेच्छानधीनेच्छाविषयीभूतो गुणसुखेच्छा
सुखत्वप्रकारकज्ञानेनैव जन्यते । नेष्टसाधनत्वज्ञानेनापि । तथा च उपायेच्छाया इष्ट-
साधनत्वविषयकज्ञानेनापि जन्यत्वेन तादृशज्ञानजन्योपायेच्छाविषयत्वेऽपि इतरेच्छान-
धीनेच्छाविषयत्वाभावेन नोपायेऽतिव्याप्तिः । अत एव सुखानन्तरमिष्टान्तरस्याभावात्
सुखस्य स्वतः पुरुषार्थत्वमुपपद्यते (मु० गु० पृ० २२१) इति । अत्र मतभेदः । सुखं
चात्मधर्मः इति नैयायिका आहुः । तच्च चित्तधर्मः इति सांख्या आहुः । अत्र सांख्यानां
मायावादिनां चायमाशयः सुखं चित्तधर्मोप्यध्यस्ततया प्रतिबिम्बरूपेण वात्मनि वर्तत
इति । अत्रेदं विज्ञेयम् । कणादमहर्षिश्च कण्ठतः सुखदुःखयोः इष्टानिष्टकारण:-
विशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः (वै० १०।१ ।१ ) । इत्यनेन कारण-
भेदात् भिन्नपदार्थत्वमुक्तवान् । तथा चायमर्थः । दुःखाभिन्नं सुखं न भवति । तथा
च - सुखं दुःखमिश्रितत्वेन दुःखाभिन्नमस्तीति प्रत्ययस्तु भ्रम एव इति । कार्यभेदेनापि