This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
इति (गौ० १।१।२७) (त० भा० पृ० ४२) । २. अबाधितार्थः (म० प्र० पृ० ३)

(न्या० को०) ।
 
-
 
-
 

 
सिद्धार्थवाक्यप्रमाणम्, सिद्धार्थवाक्यप्रमाण
सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिवाक्यानां ब्रह्मरूपसिद्धार्था-

वबोधकत्वं भवति । यथा- तदेवं विधिवाक्यानामपि सिद्धार्थबोधकत्वाद् विधि-

संस्पर्शविधुराणां सत्यज्ञानादिवाक्यानामखण्डैकरसब्रह्मलक्षणसिद्धार्थावबोधकत्वं सुतरां

सिद्ध्यतीति सिद्धम् (त० प्र० १ प० सि० बो०)।
 

 
सिद्धिः, सिद्धि
१ . निश्चयः । स च साध्यवत्तानिश्चयः (दी० घि०२) (ग० सप्र०) ।

पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्ट्यावगाहिनिश्चयः इत्यर्थः

(नील० २) । यथा पर्वते धूमेन बहिसाधने पर्वतो बह्निमान् इति निश्चयः । इयं

सिद्धिर्द्विविधाः पक्षतावच्छेदकसमानाधिकरण्यमात्रावगाहिनी पक्षतावच्छेदक-

व्यापकत्वावगाहिनी चेति । इयं सिद्धिरसत्यामनुमित्सायां कामिनीजिज्ञासाकार्यमात्रस्येव

अनुमितेः पृथक् प्रतिबन्धिका भवति । अनुमित्साः सिषाधयिषा । अत्रानुभवमनुरूध्य-

प्रतिबध्यप्रतिबन्धकभावः कल्प्यतो पक्षतावच्छेदकावच्छेदेनानुमितिं प्रति पक्षतावच्छेद-

कावच्छेदेनैव सिद्धिर्विरोधिनी, न तु पक्षतावच्छेदकसामानाधिकरण्येनापि सिद्धि-

विरोधिनी । पक्षतावच्छेदकसामानाधिकरण्यमात्रेणानुमितिं प्रति तूभयविधापि

सिद्धिर्विरोधिनी (मु० २ पक्ष०) (दीधि० २) इति । २. व्याप्तस्य पक्षधर्मताप्रतीतिः

सिद्धिरुच्यते । यथा – असिद्धो हेत्वाभासः इत्यादौ सिद्धिशब्दस्यार्थः (ता० र० श्लो०

८४) । ३. सांख्यास्तु आध्यात्मिकादिदुःखत्रयविघातास्त्रयो मुख्यसिद्धय इत्याहुः । अत्र

सूत्रम् – ऊहादिभिः सिद्धि: (सांख्य सू० ३।४४) इति । तदर्थश्च ऊहादिभेदैः

सिद्धिरष्टधा भवतीति । इदं सूत्रं कारिकयापि व्याख्यातम् । यथा- ऊहः शब्दोऽध्ययनं

दुःखविघातास्त्रयः सुहृप्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोङ्कुशस्त्रिविधः ॥

(सांख्य० भा० ३।४४) इति (न्या० को०) ।
 

 
सिन्धुः- , सिन्धु
उदकम् । यथा - "सिन्धुशब्देनोदकमभिधीयते, स्यन्दनात् सिन्धु-

रुदकम् । तद् विकारस्तत्र भवो वा सैन्धवः बृ० उ० २।४।१२ शा० भा०) ।
 
-
 

 
सुखम् - , सुख
आनन्दः । स च निरतिशयः सातिशयश्च । निरतिशयः परमात्म-

व्यञ्जकः । यथा –"नमस्यामस्तद् ब्रह्मापरिमितसुखज्ञानममृतम्" (ब्र०सू०भामतीमङ्गल-

श्लोके) । सातिशयश्च - विषयानुषङ्गजनितान्तःकरणवृत्तिः । यथा- "तथा

सुखमनुकूलं प्रसन्नं सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव" (गी० १३।६ शा० भा०)।
 
-