2023-03-12 05:02:07 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
-
सांख्ययोगः – सांख्यनामकयोगः । अर्थात् सत्वरजस्तमोभ्यो गुणेभ्यो भिन्न
आत्मेति चिन्तनम् । यथा- "अन्ये सांख्येन योगेन सांख्यं नाम- इमे सत्वरजस्तमांसि
गुणा मया दृष्ट्या अहं तेभ्योऽन्यस्तद्व्यापारसाक्षिभूतो नित्यो गुणविलक्षण आत्मेति
चिन्तनमेष सांख्यो योगस्तेन पश्यन्त्यात्मानमात्मनेति वर्तते (गी० १३ । २४ शा० भा० ) ।
यथा च - "अन्ये त्वकृतकर्माण: सांख्येन योगेन विचारात्मकेन योगेन ध्यानद्वारा
पश्यन्ति (तत्रैव नी० क० ) । यथा च "सांख्येन योगेन ध्यानोत्पत्तिद्वारा
आत्मन्यात्मानमात्मना पश्यन्तीति पूर्ववत् (तत्रैव भाष्यो०) । यथा च - "अन्ये तु
सांख्येन प्रकृतिपुरुषवैलक्षण्यालोचनेन, योगेनाष्टाङ्गेन अपरे च कर्मयोगेन पश्यन्तीति
सर्वत्रानुषङ्गः (तत्रैव श्रीधरी) ।
४७२
-
सांवृतम् - संवृणोतीति संवृत्तिः अज्ञानम्, तस्माज्जातं सांवृतम् । अज्ञानोद्भूतं
प्रातिभासिकम् । यथा - "यथाहु:- ग्रहेऽनेकस्य चैकेन किंचिद्रूपं हि गृह्यते । सांवृतं
प्रतिभासस्थं तदेकात्मन्यसम्भवात् ॥ १ ॥ नहि तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः । सांवृतं
ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥ २ ॥ इति । तन्न; नैरन्तर्यावभासस्य भ्रान्तत्वात्"
(ब्र० सू० २/२/२८ भाम०) ।
सिद्धान्तः- १.वादिप्रतिवादिभ्यां निर्णीतोऽर्थः । यथा - (क) "तन्त्राधिकरणाभ्युप-
गमसंस्थितिःसिद्धान्तः(गौ० १।१।२६) । समुदितार्थश्च तन्त्रार्थसंस्थितिस्तन्त्रसंस्थितिः।
१ अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगसंस्थितिरनवधारितार्थ-
परिग्रहः । तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः (वात्स्या० १ । १ ।२६) । अथवा तन्त्रं
शास्त्रं तदेवाधिकरणं ज्ञापकतया यस्य तादृशस्य योभ्युपगमस्तस्य समीचीनतया
असंशयरूपतया स्थितिः इति । अत्र अभ्युपगम्यमानोऽर्थः सिद्धान्तः इति भाष्यम् ।
अभ्युपगमव्यवस्था सिद्धान्तः । अभ्युपगमः इदमित्थं भूतं वा इति न्यायवार्तिकटीका
(गौ० वृ० १/१ /२६) (न्या० वा० १ पृ० १७) । अत्रेयं व्युत्पत्तिः सिद्धस्य संस्थितिः
सिद्धान्तः इति । संस्थितिरित्थं भावव्यवस्था धर्मनियमः (वात्स्या० १ । १ । २६ अवतर०
पृ० ४७) । (ख) शास्त्रितार्थनिश्चयः (गौ० वृ० १ । १ । २६) । शास्त्रप्रतिपादितार्थ-
निश्चय इत्यर्थः । (ग) प्रामाणिकत्वेनाभ्युपगतोऽर्थः (त० दी० पृ० ४३) (त० भा० पृ०
४२) (सर्व० पृ० २३८ अक्ष०) । तथा चोक्तं तार्किकरक्षायामभ्युपेतः प्रमाणैः
स्यादाभिमानिकसिद्धिभिः । सिद्धान्तः सर्वतन्त्रादिभेदात्स च चतुर्विधः (ता० २० श्लो०
५८) इति । (घ) तत्तच्छास्त्रसिद्धार्थ: (दि० १) । तत्र भेदात्तु खलु स चतुर्विधः
सर्वतन्त्रसंस्थितिः प्रतितन्त्रसंस्थितिः अधिकरणसंस्थितिः अभ्युपगमसंस्थितिश्च