This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
४७१
 
सुरये सांख्य तत्त्वग्रामविनिर्णयम् (भाग० १ ।३।१०) । (ख) सांख्ययोगोक्तो योगः ।

भगवदुक्तो योगस्तु - योग आध्यात्मिकः पुंसामतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र

दुःखस्य च सुखस्य वै ( भाग० ३।२५।१३) । इत्यादिना ग्रन्थेनोक्त इति विज्ञेयम् । एवं

पतञ्जलिप्रणीतस्य योगशास्त्रस्यैकाध्यायात्मकपादचतुष्टयस्यापि सांख्यप्रवचनसंज्ञा

ज्ञेया (सांख्य० प्र० भा० १ । १ प्रस्ता० पृ० ७) । (ग) नास्तिककपिलप्रणीतो दर्शनविशेषः ।

अत्रेदं बोध्यम् । नास्तिककपिलेन स्वयं पूर्वप्रणीतस्य सांख्यप्रवचनसंज्ञकस्य

तत्त्वसमासाख्यस्य द्वाविंशति (२२) संख्याकस्य संक्षिप्तसूत्रस्य विस्तररूपेण

षडध्यायात्मकः । अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः इत्यारभ्य यद्वा तद्वा

तदुच्छित्तिः पुरुषार्थ इत्येतत्पर्यन्तः सूत्रोपनिबद्धो ग्रन्थो विरचितः इति ।

नास्तिककपिलप्रणीतसांख्यस्य पतञ्जलिप्रणीतयोगशास्त्रस्य चानुपादेयत्वमुक्तं भारते

मोक्षधर्मेषु सांख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र

कार्या विचारणा
विचारणा (गी० मध्वभा० २।३९) इति । सांख्यमतप्रवर्तकश्च

आस्तिकनास्तिकभेदेन द्विविधः । तत्रास्तिकौ द्वौ देवहतीपुत्रः कपिल: सेश्वरसांख्य-

योगशास्त्रप्रवर्तकः । श्रीवासुदेवावतार आस्तिक एव । ऋषिप्रसूतं कपिलं यस्तमग्रे

ज्ञानैर्बिभर्ति जायमानं च पश्येत् (श्वे० ५/२) इति श्रुतेः । सिद्धानां कपिलो मुनिः

इति स्मृतेश्च । स च राजयोगाख्यमेतदध्यायपादचतुष्टयात्मकमथ योगानुशासन-

मित्यारभ्य पुरुषशून्यानां गुणानाम् इत्यन्तम् । अनीश्वरसांख्यं नास्तिककपिल-

प्रोक्तम् (न्या० को०) ।
 
-
 

 
सांख्यम् - , सांख्य
१. वेदान्तः । यथा च - "सांख्ये ज्ञातव्याः पदार्थाः संख्यायन्ते

यस्मिन्शास्त्रे तत्सांख्यं वेदान्तः (गी० १८/१३ शा० भा०) । यथा च "आत्मा

त्वंपदार्थस्तत्पदार्थो ब्रह्म तयोरैक्यधीस्तदुपयोगिनश्च श्रवणादयः पदार्थास्ते सांख्यायन्ते

व्युत्पाद्यन्ते (तत्रैव आ० मि०) । यथा च - "सम्यग् विविच्य ख्यायन्ते प्रकटीक्रियन्ते

तत्त्वान्यात्मानात्मपदार्थरूपाणि यस्मिंस्तत्सांख्यं वेदान्तशास्त्रम्" (तत्रैव नी० क०) ।

यथा च – "जीवो ब्रह्म तयोरैक्यं तद्बोधोपयोगिनश्च श्रवणादयः पदार्थाः संख्यायन्ते

व्युत्पाद्यन्ते अस्मिन्निति सांख्यं वेदान्तशास्त्रम् (तत्रैव म० सू०) । यथा च - त्वं पदार्थ

आत्मा तत्पदार्थो ब्रह्म तयोरैक्यधीः तदुपयोगिनश्च शमदमादयो ज्ञातव्याः पदार्थाः

संख्यायन्ते व्युत्पाद्यन्ते यस्मिन् वेदान्तशास्त्रे तत्सांख्यम् (तत्रैव भाष्यो०) । यथा च -

"सम्यक् ख्यायते ज्ञायते परमात्माऽनेनेति सांख्यम् । यद्वा संख्यायन्ते गण्यन्ते तत्त्वानि

यस्मिन्निति सांख्यं तत्त्वज्ञानम् (तत्रैव श्रीधरी) । २. सांख्यशास्त्रम् - यत्र पदार्थानां

चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिर्वा संख्यायन्ते । ३. ज्ञानम् । यथा - एषा त्वभिहिता

सांख्ये (गी० २।३९) ।
 
-
 
-