2023-03-12 05:02:07 by ambuda-bot
This page has not been fully proofread.
४७०
शाङ्करवेदान्तकोशः
-
यथा च "सांख्यशब्दार्थमाह- आत्मेति । तेषामेव कर्मनिष्ठत्वं व्यावर्तयति ।
ब्रह्मचर्येति । तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति वेदान्तेति ।
उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति । परमहंसेति । कर्म
वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्तेन निष्ठा कर्मिणां प्रोक्ता
इत्यनुषङ्ग:" (गी० ३।३ शा० भा० आ० टी०) । यथा च - "एकं सांख्यं च योगं च
यः पश्यति स पश्यति" इति । तामेव निष्ठां द्वैविध्येन दर्शयति सांख्येति । सांख्यं
सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चिता-
र्थानां ज्ञानभूमिमारूढ़ानां शुद्धान्तःकरणानां सांख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते
ब्रह्मणानेनेति व्युत्पत्या योगस्तेन निष्ठा" (गी० ३।३ शा० भा० म० सू०) । यथा च -
''सांख्यानां प्रकृतिपुरुषयोर्विविक्तत्वं जानतामात्मानात्मविवेकज्ञानवतां ज्ञानार्थं युज्यत
इति ज्ञानयोगः ज्ञानोपायो वेदान्तश्रवणमनननिदिध्यासनात्मकस्तेन ज्ञानयोगेन
ब्रह्मणि निष्ठां परिसमाप्ति सांख्याः प्राप्नुवन्तीत्यर्थः (गी० ३।३ शा० भा० नी० क०) ।
यथा च– "साख्यानां शुद्धान्तःकरणानां ज्ञानभूमिकामारूढ़ानां ज्ञानपरिपाका
ज्ञानयोगेन ध्यानादिना निष्ठा ब्रह्मपरतोक्ता तानि सर्वाणि संयम्य युक्त आसीत् मत्परः
इत्यादिना" (तत्रैव शा० भा० श्रीधरी) । यथा च - "सांख्यानात्मतत्त्वविदामनात्म-
वित्कर्तृककर्मयोगनिष्ठातो निष्क्रियात्मस्वरूपावस्थानलक्षणाया ज्ञानयोगनिष्ठाया
पृथक्करणात् कृतकृत्यत्वेनात्मविदः प्रयोजनानन्तराभावात्" तस्य कार्यं न विद्यत इति
कर्त्तव्यान्तराभाववचनाच्च न कर्मणामनारम्भात् 'संन्यासस्तु महाबाहो दुःखमाप्तुम-
योगत" इत्यादि वचनाच्चात्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात्, योगारूढस्य तस्यैव
शमः कारणमुच्यते इत्यनेन चोत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात्
(गी० ५/१ शा० भा०) । यथा च - "१ . सम्यग्दर्शनम् । यथा - एषा तेऽभिहिता
सांख्ये बुद्धिर्योगे त्विमां शृणु (गी० २।३९) इत्यादौ सांख्यशब्दस्यार्थः । तदुक्तम्-
शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते (व्यासस्मृतिः) (गी० मध्वभा० अ० २ श्लो०
३९) इति । २. (क) सम्यग्दर्शनप्रतिपादकं शास्त्रम् । यथा- देवहूतीं प्रति भगवतोपदिष्टं
सांख्यदर्शनम् (भक्तियोगः) (भाग० ३।२६-२७) । अत्रार्थे व्युत्पत्तिः, संख्यायत इति
संख्या सम्यग्ज्ञानम् । तत्सम्बन्धि सांख्यम् (अण्) इति । एतत्सांख्यस्य प्रवर्तको देवहूती-
पुत्रः श्रीभगवदवतारः कपिलः श्रीमद्भागवतादौ प्रसिद्धः । तदुक्तम्- कपिलस्तत्त्व-
संख्याता भगवानात्ममायया । जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् (भाग०
३।२५ (१) इति । अत्रोक्तम् पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचा-