This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
-
 
३. ब्रह्म । यथा - 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो
ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि त्येतत् (का०३० १/२/१५) । यथा
च - एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । (तत्रैव
१७) सत्यकाम परं चापरं च ब्रह्म यदोंकारः (प्र० उ० ५२) । ओमिति ब्रह्म (तै०
उ० १।८) । ॐकार एवेदं सर्वम् (छा० उ० २ । २३।३) । ॐ इत्येदक्षरमु-
द्गीथमुपासीत (तत्रैव १ ।९।१०) । ॐ खं ब्रह्म ( बृ० उ० ५/२/१ ) । ओमित्येव
ध्यायथ आत्मानम् (मु० उ० २ ।२।६) । ॐकार एवेदं सर्वमोकार एवेदं सर्वम् (छा०
उ० ७ १२ (२) । अत्र शाङ्करभाष्ये प्रणवं च तत् सत्यं परं ब्रह्म तप्रतीकत्वात् । यथा
च - ॐ तत्सदिति एष निर्देशो निर्दिश्यतेऽनेनेति निर्देशस्त्रिविधो नाम निर्देशो ब्रह्मणः ।
(गी० ७।२३ शा० भा०) तस्माद् ओमित्युदाहृत्योच्चार्य यज्ञदानतपः - क्रिया:
यज्ञादिरूपाः क्रियाः प्रवर्तन्ते । (गी० १७/२८ शा० भा०) ओमिति ब्रह्म इत्यादिश्रुतेः
ओमिति तावद् ब्रह्मणो नामनिर्देशः । तत्त्वमसि इति श्रुतेः तदित्यपि ब्रह्मणो
नामनिर्देशः । सदेव सोम्येदमिति श्रुतेः सदित्यपि तस्य नामेति मत्वाह - ओमिति
(तत्रैव आ० गि०) । ओमिति तदिति सदिति च त्रिविधस्त्रिप्रकारकोऽयं ब्रह्मणो
निर्देशो नाम्नां पाठः (तत्रैव नी क०) । ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।
(गी० ८।१३) ॐ तत्सदिति भगवन्नामोच्चारणरूपम् । ॐ तत्सदिति एवंरूपो ब्रह्मणः
परमात्मनो निर्देशः (तत्रैव म० सू०) । ॐ प्रणवः उद्गीथरूपः । यथा - ब्रह्मणः
सम्बन्धि.... उत्कृष्टतया गीयते विमृश्यते इत्युद्गीथः प्रथमोन्मेषात्मकशब्दब्रह्मरूपः
प्रणवो ध्वनिः (साम्बपञ्चाशिकाया: १ श्लो० क्षेमराजटी०) । ब्रह्म तत्त्वमसि सदैव
सोम्येत्यादि वेदान्तेषु ब्रह्मविद्भिः स्मृतश्चिन्तितः (तत्रैव भाष्यो०) ॐ तत्सदिति
इत्येभिस्त्रिभिः शब्दैः ब्रह्मणो निर्देशः संमुखीकरणम् । (तत्रैव अभि० गुप्तः) यथा च -
त्रिमात्रेणोंकारेणालम्बनेन परमात्मनमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः । क्रमेण च सम्यग्
दर्शनोत्पत्तिरिति क्रममुक्त्यभिप्रायमेतद् भविष्यतीत्यदोषः (ब्र०सू० १ । ३ । १३ शा०भा०) ।
४- भूतं भवद् भविष्यत् सर्वम् ॐ । यथा च - ओमित्येतदक्षरमिद ॐ सर्वं
तस्योपाख्यानं भूतं भवद् भविष्यद् इति सर्वमोंकार एव । यच्चान्यत् त्रिकालातीतं
तदप्योंकार एव (मा० उ० १) । सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्
(तत्रैव - २) । नान्तः प्रज्ञं न बहिष्मज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं
शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः (तत्रैव ७) । अतः परं तत्रैव
अकारोकारमकाराणामर्था एवं निर्दिष्टाः - सोऽयमात्माऽध्यक्षरमोंकारोऽ घिमात्रं
 
-