This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
प्रारब्धविगमानन्तरमित्यर्थः, तत्प्राप्तिप्रयोजनं यस्य स तथा । साधनविशेषश्च
ओंकारध्यानादिः शास्त्रीयप्रसिद्धः यः सः (तत्रैव गो० टी०) । यथा च -
सम्यगवश्यम्भावेन परा परस्ताद् ईयते गम्यत इति सम्परायः परलोकस्त्प्राप्त्यर्थः
साधनविशेषः साम्परायः ।
 
४६९
 
-
 
-
 
साम्प्रदायिकम् - सम्प्रदायादागतं साम्प्रदायिकं मन्त्रविद्यादि । यथा- गुरु-
मुखाध्ययनादि (ब्र० सू० १ । १ । ४ वे० क० त०) । सम्प्रदायशब्दोऽपि द्रष्टव्यः ।
 
सायुज्यम् - सगुणोपासकानां मोक्षेष्वन्यतमः । यत्र परमात्मनः समानं
देहेन्द्रियादिकं भवति । यथा - सयुग्भावं समानदेहेन्द्रियाभिमान्ययम् (बृ० उ०
१।३।२२ ) ।
 
सालोक्यम् - वैष्णवमोक्षेष्वन्यतमः । यत्र परमात्मना सह समानलोकभावो
भवति । यथा - समानलोकताम् (बृ० उ० १ । ३ । २२ ) । यथा च ते नो एतस्मै
देवतायै सायुज्यं सलोकतां जयति बृ० उ० १।५।२३ - (ब्र० सू० ४।४।२१)।
 
-
 
"
 
-
 
सांख्यः – सम्यगूबुद्धिस्तथा शमदमादिभिर्ज्ञानेन च संयुक्तः संन्यासः । यथा-
"संख्या सम्यगात्मबुद्धिस्तां वहतीति ज्ञानान्तरङ्गसाधनतया सांख्यः संन्यासः"
(गी० ५।४ म० सू०) । यथा च - "सांख्यं समित्येकभावे" इति यास्कः।
एकीभावेनात्मानन्यत्वेन ख्यायते प्रकाश्यते वस्तुस्वरूपमनयेति संख्या स्थूलसूक्ष्मकारण-
प्रपञ्चस्य निर्विकल्पे प्रत्यगात्मनि प्रविलापेनोदिता चेतोवृत्तिस्तत्साधनभूतो यः सांख्यः
संन्यासः स च दारादिबुद्ध्यन्तानां पदार्थानामात्मन्येकीभावेन न्यसनं त्यागः प्रविलापनम्
(तत्रैव नी० क० ) । यथा च - "संख्या सम्यग् बुद्धिस्तां वहतीति ज्ञानान्तरङ्गसाधनतया
सांख्यः संन्यासः । एवं सांख्यशब्दवाच्यः शमदमादिभिर्ज्ञानेन च संयुक्तः संन्यासोऽत्र
विवक्षितः प्रस्तुतः (तत्रैव भाष्यो०) । यथा च - "ज्ञानपेक्षस्तु संन्यासः सांख्यमिति
मयाभिप्रेतः" (गी० ५/६ शा० भा०) । २. आत्मज्ञाननिष्ठः । यथा - "यस्तु सांख्य
आत्मज्ञाननिष्ठ आत्मरतिरात्मन्येव रतिः न विषयेषु यस्य स आत्मरतिरेव स्याद्
भवेदात्मतृप्तश्चात्मनैव तृप्तो नान्नरसादिना स मानवो मनुष्यः संन्यस्यात्मन्येव च
सन्तुष्ट:" (गी० ३।१७ शा० भा०) । ३. सम्यगात्मबुद्धिः ।" यथा - "सांख्यानाम्
आत्मविषयकविवेकज्ञानवतां ब्रह्मचयदेिव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां
परमहंसपरिव्राजकानां ब्रह्मण्येवावस्थितानां निष्ठा प्रोक्ता" (गी० ३।३ शा० भा०) ।