This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
च । तत्र परसामान्यं सत्ता । द्रव्यत्वादिकमपरसामान्यम् । तत्र सामान्यविशेषयोः

परापरयोर्लक्षणं बुद्धिरेव। अनुवृत्तत्वबुद्धिः सामान्यस्य व्यावृत्तत्वबुद्धिर्विशेषस्य

लक्षणम् । अनुवृत्तत्वमधिकदेशवृत्तित्वम् । व्यावृत्तत्वमल्यदेशवृत्तित्वम् (वै० वि०

१/२/३ पृ० ५१-५२) । तथा च भाष्यम्- द्विविधं सामान्यं परमपरं च

स्वविषय- सर्वगतमभेदात्मकमनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुवृत्तिप्रत्ययकारणम् ।

स्वरूपा-भेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिबुद्धिकारणमित्यर्थः । कथम् ? प्रतिपिण्डं

सामान्यापेक्षप्रबन्धशेनोत्पत्तावभ्यासप्रत्ययजनितात्संस्कारादतीतज्ञानप्रबन्धप्रत्ययावे-

क्षणाद्यतसमनुगतमस्ति तत्सामान्यमिति । (न्या० को०)
 

 
सामान्यलक्षणा
 
, सामान्यलक्षणा
(प्रत्यासत्तिः) (अलौकिकसन्निकर्ष:) । अलौकिकप्रत्यक्ष-

विशेषे कारणं सन्निकर्षविशषः स च । १ . (क) इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतं

सामान्यम् । यथा घटत्वधूमत्वादि । अत्रार्थे सामान्यं लक्षणं स्वरूपं यस्य इति व्युत्पत्त्या

सामान्यमेव प्रत्यासत्तिः (दीधि० २ पृ० ८०) (मु० १ पृ० १२७) । अत्रेदं विज्ञेयम् ।

सामान्य ज्ञायमानमेव स्वाश्रयाणां सन्निकर्षः । ज्ञायमानघटत्वसन्निकर्षेण घटाः

इत्याकारकं सकलघटानां प्रत्यक्षं जन्यते (त० कौ०) इति । तथा यत्रेन्द्रियसंयुक्तो

धूमादिः तद्विशेष्यकं धूम इति ज्ञानं जातम् । तत्र ज्ञाने धूमत्वं प्रकारकः । तत्र धूमत्वेन

सन्निकर्षेण धूमाः इत्येवं रूपं सकलधूमविषयकं ज्ञानं जायते (मु० १ पृ० १२७)

(दीधि० २ पृ० ८१) इति । अयं सन्निकर्षश्च अतीतानागतानामिन्द्रियासन्निकृष्टानां

सामान्याश्रयाणां सर्वेषां व्यक्तीनां लौकिकं प्रत्यक्षं जनयतीति बोध्यम् । सामान्य-

लक्षणायाः प्रत्यासत्त्याः सामान्यप्रकारकज्ञानजनकत्वनियमात् (दीधि० २) । मीमांसका

मायावादिवेदान्तिनश्च सामान्यलक्षणं सन्निकर्षं नाङ्गीचक्रुः (म० प्र० ४ पृ०३९ ) ।

तन्न सहन्ते नैयायिकाः । यदि सामान्यलक्षणाप्रत्यासत्तिर्नास्ति तदा अनुकूलतर्कादिकं

विना धूमादौ व्यभिचारसंशयो न स्यात् । प्रसिद्धधूमे बह्निसम्बन्धावगमात् कालान्तरीय-

देशान्तरीयधूमस्य मानाभावेनाज्ञानात् । सामान्येन तु सकलधूमोपस्थितौ धूमान्तरे

विशेषदर्शनेन संशयो युज्यते (चि० २ पृ० १८-१९) । अतः सामान्यलक्षणावश्यकी

इति । (न्या० को०)
 
-
 
-
 
-
 
साम्परायः - शास्त्रीयः परलोकप्राप्तिसाधनविशेषः । यथा – "सम्परे यत्
इति स

 
सा
म्परायः, साम्पराय
शास्त्रीयः परलोकप्राप्तिसाधनविशेषः । यथा – "सम्परे यत्
इति सम्परायः,
परलोकस्तप्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः (क०

उ० १ । २ । ६ शा० भा०) । यथा च - "परे काले देहपतनादूर्ध्वं सम्यगीयते गम्यत

इति सम्परायः । अथवा सम्यक् पर इत्युपलक्षणम् । परापरब्रह्मप्राप्तिकाले