This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
-
 
शा० भा०) । ३. साधु । यथा - ॐ समस्तस्य खलु साम्ना उपासनं साधु । यत् खलु

साधु तत् सामेत्याचक्षते । यदसाधु तदसाम (छा० उ० २।१।१ ) । ४. अग्निः ।

यथा - तदेतदेतस्यामृच्यध्यूढ साम । तस्मादृच्यध्यूढं साम गीयत । इयमेव

साग्निरमस्तत्साम (छा० उ० १।६।१ ) ।
 
-
 
सामान्यम् -

 
सामान्यम्, सामान्य
समानभावः, सादृश्यमिति यावत् । न तु नित्योऽनेकानुगतो

जातिविशेषः । इत्यद्वैतवेदान्तिनः । यथा - न चैवमेकत्र ज्ञाने परोक्षापरोक्षत्वयो-

रभ्युपगमे तयोर्जातित्वं न स्यादिति वाच्यमिष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः

सकलप्रमाणागोचरतया अप्रामाणिकत्वात् । घटोऽयमित्यादि प्रत्यक्षं हि घटत्वादि-

सद्भावे मानं न तु तस्य जातित्वेऽपि । जातित्वरूपसाध्याप्रसिद्धौ तत्साधकानु-

मानस्याप्यनवकाशात् । समवायासिद्ध्या ब्रह्मभिन्नं निखिलप्रपञ्चस्यानित्यतया च

नित्यत्वसमवेतत्वघटितत्वघटितजातित्वस्य घटत्वादावसिद्धेश्च । एवमेवोपाधित्वमपि

निरसनीयम् (वे० प० १ प० ) । यथा च - सामान्यस्य दुर्लक्षत्वाच्च तद्विशिष्टानि

लक्षणानि सर्वाण्यपि निरस्तानि वेदितव्यानि । तथा हि किमिदं सामान्यम् । किमनु-

वृत्तप्रवृत्तिकारणम्, उतानुवृत्तप्रत्ययप्रमाणकम्, अथवानुवृत्तत्वम्, आहोस्विन्नित्यत्वे

सत्यनुवृत्तत्वम्, अथवा नित्यमेकमनेकसमवेतम् । तत्र - अतिव्याप्त्या निराकुर्यादाद्यं

पक्षचतुष्टयम् । अनेकत्वानिरुक्तेश्च पक्षमन्त्यं प्रतिक्षिपेत् (त० प्र० जातेर्लक्षणादि-

खण्डने १० ) । ....... अस्तु तर्हि मनस्त्वात्मत्वातिरिक्तनित्यमात्रसमवेतान्यत्वे सति

समवेतं सत्तानाश्रयः सामान्यलक्षणमिति चेत्, न । यतः- जातेरद्याप्यसिद्धेश्च

सत्तादेरप्यसिद्धितः । तदाश्रयतान्यत्वलक्षणेऽन्योन्यसंश्रयः (तत्रैव ११) ।
 
-
 

यथा च - १ . पदार्थ: (क) या समानां बुद्धि प्रसूते भिन्नेष्वधिकरणेषु यया

बहूनीतरेतरतो न व्यावर्तन्ते योऽर्थो नैकत्र प्रत्ययानुवृत्तिनिमित्तं तत्सामान्यम्

(वात्स्या० २।६।६८) (प्रशस्त० १ पृ० २) (त० भा०) । अत्र व्युत्पत्तिः समानानां

भावो नागन्तुको नित्यो धर्मः सामान्यम् (प० मा०) इति । तच्च द्रव्यगुणकर्मवृत्ति

नित्यं चेति बोध्यम् । (ख) नित्यत्वे सति स्वाश्रयान्योन्याभावसमानाधिकरणम् ।

(ग) नित्यत्वे सत्यनेकसमवेतम् । (घ) सामान्यं नित्यमेकं स्यादनेकसमवायि च

(ता० र० श्लो० ५३) इति । (ङ) अनुगतो धर्मः । (च) सामान्यं तु प्रध्वंस-

प्रतियोगित्वरहितमनेकसमवेतम् (सर्व० सं० पृ० २१६ औ०) । सामान्यं द्विविधम्-

परमपरं चेति । अत्र सूत्रं सामान्यं विशेष इति बुद्ध्यपेक्षम् (वै० १ । २ ।३) इति ।

(न्या० को०) । बुद्धिरपेक्षा लक्षणं यस्य तत् । तथा च सामान्यं द्विविधं परमपरं