This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
असाधुवतेत्येव तदाहुः । तस्मात् सामसाधुशब्दयोरेकार्थत्वं सिद्धम्" (छा० उ०

२ । १ । ३ शा० भा०) । यथा च - "साधु सामेति साधु गुणवत् सामेत्युपास्ते समस्तं

साधु सामसाधुगुणवत् । विद्वांसस्तस्यैतत् फलमभ्यासो ह क्षिप्रं ह यदिति क्रिया

विशेषार्थमेनमुपासकं शोभन: धर्मः श्रुतिस्मृत्यविरुद्ध आ च गच्छेत् आगच्छेच्च न

केवलं गच्छेत् उप च नमेत् उपनमेत् च भोग्यत्वेनोपतिष्ठेत् इत्यर्थः (छा० उ० २।१।४

शा० भा०) । यथा च - "लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः ।

यदसाधु विपरीतं तदसामेति (छा० उ० १/१/१ शा० भा० ) ।
 
-
 

 
सानन्दः, सानन्द
१ . आनन्देन सहितः । आनन्दः = ब्रह्म । आनन्दो ब्रह्मणः स्वरूपम् ।

यथा आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन

जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति (तै० ३।६।१) । विज्ञानमानन्दं ब्रह्म

(बृ० उ० ३।९।२८) । यथा च - ब्रह्मण्येवानन्दशब्दो दृष्टः एवमानन्दशब्दस्य

बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते (ब्र० सू० १1१।१२) ।

२. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (पा० यो० सू० १।१७) । अत्र

व्यासभाष्ये – आनन्दः ह्लादः । अत्र श्रीवाचस्पतिमिश्रतत्त्ववैशारद्याम् - आनन्द इति ।

इन्द्रिये स्थूल आलम्बने चित्तस्याभोग आह्लादः । प्रकाशशीलतया खलु सत्त्व-

प्रधानादहङ्कारादिन्द्रियाण्युत्पन्नानि सत्त्वं सुखमिति तान्यपि सुखानि इति तस्मिन्ना-

भोग आह्लाद इति । आनन्दो ब्रह्मणः परमात्मनोऽन्तरङ्गा शक्तिरिति वैष्णवाः ।

यथा च - समाधिः यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य

सत्त्वस्योद्रे-कात्सानन्दः (सर्व० सं० पृ० ३५७ पात०) ।
 
-
 

 
साभाव्यम् - , साभाव्य
सारूप्यं सादृश्यं समानभावः । यथा - समानो भावो रूपं येषां ते

सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् (ब्र० सू० ३।१।२२

भाम० ) ।
 
-
 
-
 
साम -

 
साम, सामन्
१. स्वरः । यथा- "का साम्नः प्रकृतत्वादुद्गीथस्यं । उद्गीथो

ह्यत्रोपास्यत्वेन प्रकृतः । परोवरीयांसमुद्गीथमिति च वक्ष्यति । गतिराश्रयः परायण-

मित्येतत् । एवं पृष्टो दाल्भ्य उवाच स्वर इति । स्वरात्मकत्वात् साम्नः । यो यदात्मकः

स तद्गतिस्तदाश्रयश्च भवतीति युक्तं मृदाश्रय इव घटादिः (छा० उ० ११८४

शा० भा० पृ० ५२) ।२. चन्द्रमाः । यथा - "नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ।

अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्यं तत्साम (छा० उ० १।६।४-५