2023-03-12 05:02:05 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
असाधुवतेत्येव तदाहुः । तस्मात् सामसाधुशब्दयोरेकार्थत्वं सिद्धम्" (छा० उ०
२ । १ । ३ शा० भा०) । यथा च - "साधु सामेति साधु गुणवत् सामेत्युपास्ते समस्तं
साधु सामसाधुगुणवत् । विद्वांसस्तस्यैतत् फलमभ्यासो ह क्षिप्रं ह यदिति क्रिया
विशेषार्थमेनमुपासकं शोभन: धर्मः श्रुतिस्मृत्यविरुद्ध आ च गच्छेत् आगच्छेच्च न
केवलं गच्छेत् उप च नमेत् उपनमेत् च भोग्यत्वेनोपतिष्ठेत् इत्यर्थः (छा० उ० २।१।४
शा० भा०) । यथा च - "लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः ।
यदसाधु विपरीतं तदसामेति (छा० उ० १/१/१ शा० भा० ) ।
-
सानन्दः – १ . आनन्देन सहितः । आनन्दः = ब्रह्म । आनन्दो ब्रह्मणः स्वरूपम् ।
यथा आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन
जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति (तै० ३।६।१) । विज्ञानमानन्दं ब्रह्म
(बृ० उ० ३।९।२८) । यथा च - ब्रह्मण्येवानन्दशब्दो दृष्टः एवमानन्दशब्दस्य
बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते (ब्र० सू० १1१।१२) ।
२. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (पा० यो० सू० १।१७) । अत्र
व्यासभाष्ये – आनन्दः ह्लादः । अत्र श्रीवाचस्पतिमिश्रतत्त्ववैशारद्याम् - आनन्द इति ।
इन्द्रिये स्थूल आलम्बने चित्तस्याभोग आह्लादः । प्रकाशशीलतया खलु सत्त्व-
प्रधानादहङ्कारादिन्द्रियाण्युत्पन्नानि सत्त्वं सुखमिति तान्यपि सुखानि इति तस्मिन्ना-
भोग आह्लाद इति । आनन्दो ब्रह्मणः परमात्मनोऽन्तरङ्गा शक्तिरिति वैष्णवाः ।
यथा च - समाधिः यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य
सत्त्वस्योद्रे-कात्सानन्दः (सर्व० सं० पृ० ३५७ पात०) ।
-
साभाव्यम् - सारूप्यं सादृश्यं समानभावः । यथा - समानो भावो रूपं येषां ते
सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् (ब्र० सू० ३।१।२२
भाम० ) ।
-
-
साम - १. स्वरः । यथा- "का साम्नः प्रकृतत्वादुद्गीथस्यं । उद्गीथो
ह्यत्रोपास्यत्वेन प्रकृतः । परोवरीयांसमुद्गीथमिति च वक्ष्यति । गतिराश्रयः परायण-
मित्येतत् । एवं पृष्टो दाल्भ्य उवाच स्वर इति । स्वरात्मकत्वात् साम्नः । यो यदात्मकः
स तद्गतिस्तदाश्रयश्च भवतीति युक्तं मृदाश्रय इव घटादिः (छा० उ० ११८४
शा० भा० पृ० ५२) ।२. चन्द्रमाः । यथा - "नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ।
अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्यं तत्साम (छा० उ० १।६।४-५