This page has not been fully proofread.

शावेदान्तकोशः
 
-
 
६।११) । इत्यादौ जीवेश्वरौ साक्षिणाविति । तन्मते जीवसाक्षीश्वरसाक्षिद्वैविध्येन
प्रत्यक्षज्ञानद्वैविध्यम् । तत्र जीवसाक्षि चान्तःकरणोपहितं चैतन्यम् । तच्च जीवभेदेन
नाना । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूतमायाया
एकत्वादिति । यथा च- अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नस्वचिदाभासा-
विवेकादन्तर्यामी साक्षी जगत्कारणमीश्वर इति कथ्यते । बुद्धयुपहितश्च
तत्तादात्म्यापन्नस्वचिदाभासाविवेकाज्जीवः कर्ता भोक्ता प्रमातेति च कथ्यत इति
वार्त्तिककारपादाः (सि० वि० १) । माध्वमते तु स्वरूपेन्द्रियं साक्षि न तु मनः (न्याय-
कोशः) ।
 
४६५
 
-
 
साटोपः - प्रमाणान्तरप्रतीतियोग्यः । परमात्मा न प्रमाणान्तरगम्यः । अतो न
साटोपः । यथा- यदि मानान्तरविषयः परमात्मा भवेत्तदा साटोपं ससम्भ्रममौप-
निषदत्वविशेषणेन पुमांसं कथमाहेति योजना (सं० शा० ३।२९६ अ० टी०) ।
 
सात्त्विकी सम्पत् - दैव्यासुरीप्रभृतिसम्पत्तिष्वन्यतमा दयादाक्षिण्यादिरूपा ।
यथा - "व्यवस्थानं तन्निष्ठतैषा प्रधाना दैवी सात्त्विकी सम्पत्" (गी० १६।३ शा०
भा० ) । यथा च - "महाभाग्यानामत्युक्तमा दैवी सम्पदुक्ता" (तत्रैव आ० गि०) ।
 
"
 
साधनचतुष्टयम् - ब्रह्मसाक्षात्कारे चत्वारि साधनानि । यथा - " उच्यते-
नित्यानित्यवस्तुविवेकः, इहामुत्रभोगविरागः, शमदमादिसाधनसम्पत्, मुमुक्षत्वं च"
(ब्र० सू० १/१/१ शा० भा० ) । यथा च - "नित्यानित्यवस्तुविवेकेहामुत्रार्थ-
फलभोगविरागशमादिषट्कसम्पत्तिमुमुक्षुत्वानि (वे० सा० आदौ) । प्रत्येकं विवरणं तु
तत्रैव वेदान्त सारे द्रष्टव्यम् ।"
 
-
 
-
 
-
 
साधुः – यथा च – "समस्ते साम्नि साधुदृष्टिविधिपरत्वान्न न पूर्वोपासन-
निन्दार्थत्वं साधुशब्दस्य । ननु पूर्वत्राविद्यमानं साधुत्वं समस्ते साम्न्यभिधीयते न ।
साधु सामेत्युपास्त इत्युपसंहारात् । साधुशब्दः शोभनवाची । कथमवगम्यत इत्याह ।
यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः (छा० उ० २/१/१
शा० भा०) । यथा च - "यतोऽसाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः । शोभनाभिप्रायेण
साधुनैनमुपागादिति एव तत्तत्राऽऽहुकिकाः बन्धनाद्यसाधुकार्यमपश्यन्तः । यत्र पुन-
र्विपर्यर्यो बन्धनाद्यसाधुकार्यं पश्यति । तत्रासाम्नैनमुपागादित्यैव तदाहुः । अथोताप्याहुः
स संवेद्यं सामनोऽस्माकं वतेत्यनुकम्पयतः संवृत्तमित्याहुः । एतत्तैरुक्तं भवति यत्साधु
भवति साधुवतेत्येव तदाहुः । विपर्यये जातेऽसामनो वतेत्येव । यदसाधु भवति
 
-