This page has been fully proofread once and needs a second look.

४६४
 
शाङ्करवेदान्तकोशः
 
२. (क) मायावादिवेदान्तिनस्तु अव्यवहितम् (बृ० उ० ३ । ४।१ शा० भा०) । तच्च

सद्रूपचैतन्यमित्याहुः। यथा - यत्साक्षादपरोक्षाद् ब्रह्म (बृ० उ० ३।४।१ ) इति श्रुतौ

साक्षादित्यस्यार्थः । (ख) परम्परासम्बन्धराहित्यम् । यथा द्रव्यत्वसाक्षाद्व्याप्या जातिः

पृथिवीत्वमित्यादौ साक्षात् शब्दार्थः । अत्र साक्षाद्व्याप्यत्वं च तद्व्याप्याव्याप्यत्वे सति

तद्व्याप्यत्वं बोध्यम् । यथा च - साक्षान्माता साक्षाद् भगिनी इत्यादौ साक्षात् शब्दार्थः ।

३. तुल्यम् । यथा साक्षाल्लक्ष्मीरियं बधूः इत्यादौ साक्षात् शब्दार्थः इति काव्यज्ञा

आहुः (अमर० ३।३ । २४२) (न्यायकोश:) ।
 

 
साक्षात्कारः, साक्षात्कार
(क) प्रत्यक्षात्मकं ज्ञानम् (न्या० म० १ पृ० ३) । यथा साक्षात्कारे

सुखादीनां करणं मन उच्यते (भा०प० श्लो० ८६) इत्यादौ साक्षात्कारशब्दस्यार्थः ।

अत्र साक्षात्कारत्वं च साक्षात्करोमित्यनुगतप्रतीतिसाक्षिको जातिविशेषः (न्या० म०

१) । (ख) लौकिकसन्निकर्षजन्यं प्रत्यक्षं साक्षात्कार इति केचिदाहुः (न्यायकोशः) ।
 

 
साक्षित्वम् - , साक्षित्व
मायोपहितं चैतन्यमीश्वरः । स च साक्षी, तस्मिन् साक्षित्वम् । यथा -

मायावच्छिन्नं चैतन्यं परमेश्वरः मायया विशेषणत्व ईश्वरत्वमुपाधित्वे साक्षित्वमिति

ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर एकोऽपि

स्वोपाधिभूतमायानिष्ठसत्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरेत्यादिशब्दवाच्यतां

लभते (वे० प० १ प० ) ।
 

 
साक्षी - , साक्षिन्
यथा - अन्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासक -

चैतन्योपाधित्वम् । अयं च जीवसाक्षी प्रत्यात्मं नाना । एकत्वे मैत्रावगते

चैत्रस्याप्यनुसन्धानप्रसङ्गः । ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकं तदुपाधि-

भूतमायाया एकत्वात् । .....ततश्च तदुपहितं चैतन्यमिश्वरसाक्षि । मायावच्छिन्नं

चैतन्यं परमेश्वरः । मायांया विशेषणत्वे ईश्वरत्वम् । उपाधित्वे साक्षित्वमिति

ईश्वरत्वसाक्षित्वयोर्भेदः । न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर एकोऽपि

स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरेत्यादिशब्दवाच्यतां

लभते (वे० प० १ प०) । यथा च - "त्रिषु धामसु यद् भोग्यं भोक्ता भोगश्च यद् भवेत् ।

तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः" (प० द० ७ । २ । १५ ) । यथा च -

"जडत्वमात्रोपाधिरित्यर्थः" (सं० शा० ३ । १८३ सु० टी०) । यथा च - "बौद्धत्वे सति

अकर्ता । यथा कलहे प्रवृत्ते कश्चनान्यः पुरुषः साक्षी । मायावादिवेदान्तिमते

उपाध्युपहितं केवलं चैतन्यं साक्षि । यथा साक्षी चेताः केवलो निर्गुणश्च" (श्वे० उ०
 
-
 
-