2023-03-12 05:02:05 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
अविषयान्न तयात्मा संस्क्रियते । .....सच देहेन संहत एव । तेनैव ह्यहं कर्त्ताहं
प्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते" (ब्र० सू० ११/४ शा० भा० ) ।
संस्कारस्कन्धः- बौद्धदर्शनाभिप्रेतेषु पञ्चसु स्कन्धेषु रूपविज्ञानवेदनासंज्ञा-
संस्कारेष्वन्यतमः । यथा - "संस्कारस्कन्धो रागादयः क्लेशाः उपक्लेशाश्च मदमानादयः
धर्माधर्मौ चेति (ब्र०. सू० २।२।१८ भाम०) । विशदज्ञानार्थं स्कन्धशब्दो द्रष्टव्यः ।
संहारः- प्रलयः । यथा इदानीं प्रलयो निरूप्यते । प्रलयो नाम त्रैलोक्यनाशः । स
च चतुर्विधः नित्यः प्राकृतो नैमित्तिकः आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः ।
तस्याः सकलकार्यप्रलयरूपत्वात् । ... प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः
सकलकार्यनाशः । ...……कार्यब्रह्मणो दिवसावसाननिमित्तकस्त्रैलोक्यमात्रप्रलयो नैमित्तिक-
प्रलयः । .....द्विप्रहरार्द्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्प्यन्ते
प्रलयाय हि । एष प्राकृतिको राजन् प्रलयो यत्र लीयते ॥ इति वचनं प्राकृतप्रलये मानम् ।
एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य
चाखिलम् । इति वचनं नैमित्तिकप्रलये मानम् । तुरीयप्रलस्तु ब्रह्मसाक्षात्कार-
निमित्तकः सर्वमोक्षः (वे० प० ६ प०) । १. (क) प्रलयः (हेम च०) । यथा चतुर्णां
महाभूतानां सृष्टिसंहारविधिरुच्यते (प्रशस्त०) इत्यादौ संहारशब्दस्यार्थः । (ख)
ध्वंसशब्दवदस्यार्थोऽनुसन्धेयः । २. संक्षेपः । ३. नरकविशेषः । ४. विसर्जनम् । ५.
संहारभैरवकालिकाभैरवविशेषः इति । तान्त्रिका आहुः । ते चाष्टौ असिताङ्गो
रुरुश्चण्डः क्रोध उन्मत्त एव च । कपाली भीषणश्चैव संहारश्चाष्टभैरवाः (तन्त्र-
सा०) (वाच०) इति । (न्यायकोशः) ।
-
साकारत्वम् - १. धर्माश्रयत्वम् (मू० म० १ ) । यथा अयं घटः इति ज्ञानस्य
घटत्वाश्रयत्वम् । स्वनिष्टप्रकारतानिरूपितप्रकारितासम्बन्धेन यत्किञ्चिद्धर्मविशिष्टत्वम्
इत्यर्थः । २. माध्वाः पौराणिकाश्च मूर्तिविशिष्टत्वम् । यथा परमात्मनः साकारत्वम्
इत्याहुः । अयं भावः मध्वमते परमात्मनो प्राकृतज्ञानानन्दादिगुणरूपशरीरस्वीकारेण
साकारत्वं सङ्गच्छते । पौराणिकमते तु अपाञ्चभौतिकेच्छास्वीकृतलीलाविग्रहवत्त्वेन
तस्य साकारत्वमुपपद्यत इति (न्या० को०) ।
-
साक्षात् - प्रत्यक्षम् । यथा- यत् साक्षादपरोक्षाद् ब्रह्म (बृ० उ० ३।४।१ ) ।
अपरोक्षादिति छान्दसः प्रयोगः । अपरोक्षमित्यर्थः (वे० प० ७ प०) ।....यथा च - १.
प्रत्यक्षम् । यथा साक्षादृष्टो मया हरिः इत्यादौ । केचित्तु लौकिकप्रत्यक्षमित्याहुः ।