2023-03-12 05:02:05 by ambuda-bot
This page has not been fully proofread.
४६२
शाङ्कुरवेदान्तकोशः
एव परमां संसिद्धिं मोक्षङ्गता:" (तत्रैव नी० क० ) । २. ज्ञानयोगः । यथा - "योगो
ज्ञानयोगः स एव संसिद्धिः संसिद्धशब्दवाच्यमोक्षसाधनत्वादुपचारात् तामप्राप्य
अनुत्पन्ने मोचकज्ञान इत्यर्थ:" (गी० ६।३७ भाष्यो०) ।
संस्कार:
-
१ . यथा - संस्कारो नाम संस्कार्यस्य गुणाधानेन वा दोषापनयनेन
वा (ब्र० सू० १/१/४ शा० भा०) । अत्र विशदज्ञानार्थं भामती द्रष्टव्या । २.
प्राक्तनकर्मजन्यो वासनाविशेषरूपः । येन जननादिप्रवृत्तिः शुभाशुभकर्मादिषु प्रवृत्तिः ।
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च (ब्र० सू० ३।१।८) । इति सूत्र-
शाङ्करभाष्ये अनुशयशब्दस्य व्याख्यायां केषांचन मतमुल्लिख्य अनुशयशब्दस्यार्थः
संस्कारो वासना वेतिवद् निर्णीतम् । यथा - कः पुनरनुशयो नामेति - केचित्तावदाहुः
स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् । यथा
हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित् स्नेहशेषोऽव-
तिष्ठते । तथानुशयोऽपीति । ३. अविद्यालेशः । यथा - "भाष्ये संस्कारवशादिति
संस्कारशब्दः परिशिष्टाविद्यालेशवाची" (ब्र० सू० ४/१/१५ वे० क० त०) । ४. गुणः
(क) संस्कारत्वजातिमान् (त० दी०) (प्र०प०) (त० कौ०) संस्कारः अनित्यः
(वाक्य० गु०पृ० २२) । स च त्रिविधः वेगः भावना स्थितिस्थापकश्चेति । (ख) सामान्य-
गुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान् (सि० च० पृ० ३५) । तस्यायमर्थः।
सामान्यगुणो वेगः स्थितिस्थापको वा । आत्मविशेषगुणस्तु भावना । एतदुभयवृत्तिः
गुणत्वव्याप्या च या जातिः तद्वान् संस्कार इति । सा च जातिः संस्कारत्वात्मिका भवतीति
विज्ञेयम् (त०दी०पृ० ३८) । संस्कारत्वं न जातिः इति व्यवस्थापने प्रायतन्त चषकादौ
(वाच०) (न्यायकोश:) । ४. जातकर्मादिधर्मशास्त्रीयः संस्कारः ।
संस्कार्यः – संस्कारयोग्यः । यागादौ ब्रीह्यादिः । तद्वद् आत्मनि अविद्यया
कर्मणा वा यो मलस्तस्योपासनया विद्यया वापाकरणं तदर्ह आत्मा संस्कार्यः । यथा -
"संस्कार्यो ब्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथाल्यस्य कर्म-
शेषत्वमपि व्यावर्तयति" (ई० उ० सं० भा०) । यथा च - "नापि संस्कार्यो मोक्षः
येन व्यापारमपेक्षते । संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्याद्दोषापनयनेन
वा । .....स्वात्मधर्म एव संस्तिरीभूतो मोक्षः क्रियात्मनि संस्क्रियमाणेऽभिव्यज्यते, ....
तच्चानिष्टम् । तस्मान्न स्वाश्रया क्रियात्मनः सम्भवति । अनाश्रयायास्तु क्रियाया
}