This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
संसारः - , संसार
नामरूपात्मकं कल्पितमिदं संसरणशीलं जगत् । यथा- "व्याकृता-

 
-
 
-
 
-
 

व्याकृतस्वभावो नामरूपकार्यात्मकः संसार: (बृ० आ० उ० ४।१।१ शा० भा०) ।

यथा च - "ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता । जाग्रदादिविमोक्षान्तः संसारो

जीवकल्पितः" (प० द० ७।४) । यथा च पुनः ईक्षणादिप्रवेशान्ता इत्यादि (तत्रैव

१३) । यथा च – "आनन्दमयविज्ञानमयावीश्वरजीवकौ । मायया कल्पितावेतौ ताभ्यां

सर्व प्रकल्पितम् (प० द० ६ । २१२) । यथा च - "आनन्दादेव भूतानि जायन्ते तेन

जीवनम् । तेषां लयश्च तत्रातो ब्रह्मानन्दो न संशयः (प० द० ११ /१३ ) । यथा

च - "संसारः परमार्थोऽयं संलग्न: स्वात्मवस्तुनि इति भ्रान्तिरविद्या स्याद्विद्ययैषा

निवर्तते (प० ८०६ । १० ) । संसार : - ( क ) जगत् । ब्रह्मणो विवर्तरूपः संसार:
। (क)

सच नाम रूपात्मकः । यथा जगति नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूप-

सम्बन्धात् ।तदुक्तम् – अस्ति नास्ति प्रियं रूपं नाम चेत्यंशपञ्च कम् । आद्यं त्रयं ब्रह्मरूपं

जगद् रूपं ततो द्वयम् (वे० प० ७ १०) । (ख) दुःखादीना कार्यकारणाभावः । स

चानादिः । पूर्वापरकालानियमात् । दुःखादयो मिथ्याज्ञानेपर्यवसाना अविच्छेदेन

वर्तमानः संसारः (न्या० वा० १ पृ० २६) इति । मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन

वर्तमानः संसारशब्दार्थ: (सर्व० पृ० २४६ अक्ष०) । अयं भावः । धाता यथा

पूर्वमकल्पयदिति वेदे खण्डप्रलयस्य प्रसिद्धत्वेन संसारस्य प्रवाहानादित्वं प्रकल्पनीयम्

(त० प्र० ४ पृ० १८) इति । वल्लभीया मायावादिनो वेदान्तिनश्च मिथ्या-

ज्ञानेजन्यसंस्काररूपवासना देहारम्भकादृष्टविशेषो वा स्वादृष्टोपनिबद्धदेहपरिग्रहो वा

संसार इत्याहुः । अत्र संसारगतिप्रकारस्तु ॐतदन्तरप्रतिपत्तौ रंहति.... (ब्र० सू०

३।१।१ ) (न्या० को०) ।
 
-
 

 
संसारी- , संसारिन्
अविद्ययोपगूढः कर्मानुसारजननमरणशीलः कर्तृत्वभोक्तृत्वाद्य-

भिमानी जीवः । (क) भवाद् भवान्तरप्राप्तिमन्तः संसारिणः (सर्व० सं० पृ० ७०

आई०) । (ख) एष प्रमाता मायान्धः संसारी कर्मबन्धनः (सर्व० सं० पृ० १९९

प्रत्य०) (न्या० को०) ।
 
-
 
-
 

 
संसिद्धिः - , संसिद्धि
१. परमा गतिः मोक्षः । यथा - "महात्मनो यतयः संसिद्धिं

मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः" (गी० ८।१५ शा० भा०) । यथा च - "अत"