2023-03-12 05:02:04 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
भामत्याम् – वायुः खल्वग्न्यादीन् संवृणुते इत्यग्न्यादीन् अपेक्ष्यावच्छिन्नोऽग्न्याद-
यस्तु तेनैवावच्छिन्ना इति संवर्गगुणतया वायुरनवच्छिन्ना देवता । अत्र वे० क० तरौ
संवृणुते संहरतीत्यर्थः । पुनश्च - तथा तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु
- छा० उ० ३।३।४- इति भेदेन व्यपदिशति । तस्मात् पृथगेवोपगमनम्
(ब्र० सू० ३।३ । ४३ शा० भा० ) ।
-
४६०
-
-
-
संवित् - १. चित् । सा च शब्दस्पर्शादिविषया । विषयभेदेन भेदकतेव
प्रतीयते । वस्तुत एकरूपैव सा । यथा - "शब्दस्पर्शादयो वेद्य, वैचित्र्याज्जागरे पृथक् ।
ततो विभक्ता तत्संविदैकरूप्यान्न भिद्यते (प० द० १ । ३) । यथा च - न च संविदां
विषयव्यभिचारादनाश्वासप्रसङ्गः (त० प्र० अख्या० प्र०) । संवित् = परा चितिरिति
प्रत्यभिज्ञादर्शने । यथा च - "अत्रोच्यते- द्वयी संविद्वस्तुनो भूतशास्त्रिणः एका सा
स्पष्टविषया तन्मात्रविषया परा । तन्मात्रविषया वापि द्वयी साथ निगद्यते । प्रतियोगिनि
दृश्ये च घटादिप्रतियोगिन: (सर्व० सं० पृ० ४३० ज्ञां०) (न्या० को०) । यथा च -
"परागर्थप्रमेयेषु या फलत्वेन सम्मता । संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः"
(प० द० ८।११) । २. ज्ञानम् । यथा च - "तथा स्वप्नेऽत्र वेद्यं तु न स्थिरं जागरे
स्थिरम् । तद्भेदोऽतस्तयोः संविदेकरूपा न भिद्यते" (प० द० १।४) ।
-
संवृत्तिः - संवरणाद् आच्छादकत्वात् संवृत्तिः = अविद्या । बौद्धदर्शने बहुधा
प्रयुज्यते । यथा – असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः (सर्व० सं० पृ०
४३९ शां०) (न्या० को०)।
-
संशयः - १. (क) एकस्मिन्धर्मिणि विरुद्धनानाकोटिकं ज्ञानम् (त० सं० ) ।
इदं तु बोध्यम् । संशयश्च प्रत्यक्षरूपः सन्निकर्षजन्यत्वादिति । अत एवोक्तम्
परोक्षज्ञानमनाहार्यं निश्चयश्चेति सिद्धान्तादिति । संशयो न्यायस्याङ्गं भवति ।
यस्मान्नानुपलब्धेन निर्णीते न्यायः प्रवर्तते अपि तु संदिग्धे (न्या० वा० १ पृ० १४) ।
अत्र विशेषाः- दर्शनं कोटिद्वयस्मरणं धर्मिज्ञानं च संशयमात्रे हेतुः इति विज्ञेयम्
(सि० च०) (त० प्र० ४ पृ० १३१) । संशयलक्षणं तु स्वीयैककोटिप्रकारता-
वच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूतापरकोटिप्रकारताशालिज्ञानत्वम्
(दि० गु०) (न्या० को०) ।