This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 

 
॥ श्रीहरिः ॥
 

 
ॐ पूर्णमदः पूर्णमिदं

पूर्णमादाय
 

 
पूर्णात्पूर्णमुदच्यते ।

पूर्णमेवावशिष्यते ॥ १ ॥
 

 
पूर्णस्य
 

 
अन्नपूर्णां सदापूर्णां विश्वेशं विश्वविग्रहम् ।
 

 
जननीं जनकं नौमि सच्चिदानन्दसंविदे ॥ २ ॥

विनायकं नमस्कृत्य विघ्नेशं सिन्धुराननम् ।

शङ्कराद्वैतवेदान्तशब्दकोशं
 

 
तनोम्यहम् ॥ ३ ॥
 

 
अत्र बेदान्तशास्त्रेषु विशिष्टार्थस्य बोधकाः ।

शब्दाः प्रयुक्ताः सूरिभिस्तेषामर्थान् चिनोम्यहम् ॥ ४॥

आचार्यवचनान्यत्र तत्तदर्थस्य
 

 
पुष्टये।
 

 
उध्रियन्ते यथाशक्ति विदुषां
 

 
मोदहेतवे ॥ ५॥
 

 
ॐ, ओम् - इदमाद्यमक्षरम्, वर्णसमाम्नायपठितेभ्योऽथवाक्षरमालापठितेभ्योऽति-

रिक्तम् । अस्य रूपद्वयम् ॐ इति ओम् इति च । अत्र ॐ इति निरवयवम् ओम्

इति च सावयवम् । उपनिषत्सु शास्त्रेषु चोभयरूपं प्राप्यते । वैयाकरणाः 'ओमाङोश्च'

(६।१।९५) इति पाणिनिसूत्रस्योदाहरणे शिवाय ओं नमः - शिवायों नमः इत्यत्र

सावयवयमेव ओमित्यङ्गीकुर्वन्ति । श्री नागेशभट्टेनापि एवमेवाङ्गीकृतम्-तस्य ह्यासंस्त्रयो

वर्णा अकाराद्या भृगूद्वह। धार्यन्ते यैस्त्रयो भावा गुणानामर्थवृत्तयः । अकाराद्या

अकारोकारमकाराः ।तस्येत्यवयवावयविभावे षष्ठी । यैः अकाराद्यैः त्रयः त्रिसंख्यायुक्ताः ।

भावाः धर्माः । धार्यन्ते तत्कारणत्वात् । गुणाः सत्त्वरजस्तमांसि । नामानि ऋग्यजुःसाम-

लक्षणानि । अर्थः भूर्भुवः स्वर्लोकाः । वृत्तयः जाग्रत्स्वप्नसुषुप्तयः । अनेन प्रकारेण

सर्वप्रपञ्चकारणतोक्ता (वै०सि०ल०म०स्फोटनि०) । स्फोट एव आन्तरप्रणवः (तत्रैव) ।

१. परममाङ्गलिकः शब्दोऽयम् । यथा - ॐकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा ।

कण्ठं भित्वा विनिर्यातौ तेन माङ्गलिकावुभौ । २. प्रणवः,प्रणव - प्रकर्षेण नौति प्रह्लीकरोति ।
 

 
-
 

 
0