2023-03-12 05:02:04 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
४५९
तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत् विषयविषयिणोर्भिन्नस्वभावयोः
क्षेत्रक्षेत्रज्ञयोरितरेतरतद्धर्माध्यासलक्षणस्य संयोगस्य क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभाव-
निबन्धनस्य सम्भवात् । तथा च यथाशास्त्रं मुञ्जादिवेषीकां यथोक्तलक्षणात्क्षेत्रात्
यथोक्तलक्षणं क्षेत्रज्ञं विभज्य निरस्तसर्वोपाधिमीश्वराभिन्नं यः पश्यति क्षेत्रं च
मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरद्विचन्द्ररज्जूरगवदसदेव सदिवाभासत इत्येवं
निश्चितविज्ञानी यस्तस्य सम्यग्दर्शनेन जन्महेतोः मिथ्याज्ञानस्यापगमान्मोक्ष उपपद्यते
नत्वन्यस्येत्यतो युक्तमुक्तं य एवं वेत्यादि" (तत्रैव भाष्यो० ) । यथा च - "यावत्
किञ्चित् वस्तुमात्रं सत्त्वमुत्पद्यते तत्सर्वं क्षेत्रक्षत्रज्ञयोर्योगात् अविवेककृतात् तादात्या-
ध्यासाद् भवतीति जानीहि" (तत्रैव श्रीधरी) । २. नैयायिकाभिमतः संयोगश्चतुर्विंशति-
गुणेष्वन्यतमः। यथा च - एतदुक्तं भवति - गुणश्च संयोगो द्रव्यं शरीरम् । ३.
सम्बन्धविशेषः ।
-
संवरः
लोकप्रवर्तककर्मनिरोधः । यथा - आस्रवनिरोधः । येनात्मनि
प्रविशत्कर्म प्रतिषिध्यते स गुप्तिसमित्यादिः (सर्व० सं० पृ० ७८ आहं०) । यथा च -
"सप्त चैषां पदार्थाः सम्मता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम । संक्षेपतस्तु
द्वावेव पदार्थों जीवाजीवाख्यौ" (ब्र० सू० २ । २ । ३३शा० भा० ) । यथा च - "सप्त
चैषां पदार्थाः सम्मता इति । तत्र संक्षेपमाह - संक्षेपतस्तु द्वावेव पदार्थाविति बोधात्मको
जीवो जडवर्गस्त्वजीव इति" (तत्रैव भाम०) ।
-
संवर्ग:- १. वायुः, २. अध्यात्मदृष्ट्या प्राणाः । यथा- क्रियाविशेषाद्वा यथा
वायुर्वावसंवर्गः । 'प्राणो वाव संवर्ग: ।' बाह्या खलु वायुदेवता वन्यादीन्
संवृते । महाप्रलयसमये हि वायुर्वन्यादीन् संवृत्त्य संहृत्यात्मनि स्थापयति । यथाह
द्रविडाचार्यः । संहरणाद्वा संवरणाद्वा सात्मीभावाद् वायुः संवर्गः। आध्यात्मं च प्राणः
संवर्ग इति । स हि सर्वाणि वागादीनि संवृते । प्रयाणकाले हि स एव सर्वाणीन्द्रियाणि
संगृह्योत्क्रामति इति । सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद् दर्शयति
यथा । एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिरमृतत्त्वाय फलाय कल्पत इति
(ब्र० सू० १/१/४ भाम० ) । यथा च वायुर्वा व संवर्ग: - छा० उ० ४।३।१ - ।
इत्यत्राधिदैवतमग्न्यादीनां वायुः संवर्गोऽवधारितः । प्राणो वा व संवर्गः - छा० उ०
-
४।३।२ - । इत्याध्यात्मं वागादीनां प्राणः - ब्र० सू० ३।३।४३ शा० भा० - । अत्र