This page has been fully proofread once and needs a second look.

शारवेदान्तकोशः
 
(तत्रैव वे० क० त० ) । यथा च – "सम्भक्ताविति धातोरौणादिकप्रत्ययान्ततया निष्पन्नो

वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु वगादिभोगवस्तुषु पर्यवस्यतीति भावः

(तत्रैव वे० क० त० प० ) । संयद् - सम्पत्स्यमानं वामम् सुपुण्यफलं सर्वकल्याणम् ।

सर्वकल्याणनिधानं ब्रह्म परमात्मा । यथा - "संयन्ति संगच्छमानानि वामान्यनेनेति

संयद्वामः परमात्मा" (ब्र० सू० १ । २ । १३ भाम० ) ।
 
-
 
४५८
 
=
 

 
संयमः , संयम
निरोधसमाधिर्योगो वा । यथा - "सर्वाणीन्द्रियकर्माणीन्द्रियाणां

कर्माणीन्द्रियकर्माणि तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकस्तत्कर्माण्याकुञ्चन-

प्रसारणादीनि तानि चापर आत्मसंयमयोगाग्नावात्मनि संयम आत्मसंयम स एव

योगाग्निस्तस्मिन्नात्मसंयमयोगानौ जुह्वति प्रक्षिपन्ति" (गी० ४।२७ शा० भा०) । यथा

च – "आत्मसंयमयोगाम्नौ आत्मविषयकः संयमो धारणाध्यानसंप्रज्ञातसमाधिरूपस्त-

त्परिपाके सति योगो निरोधसमाधिः" (तत्रैव म० सू० ) ।
 
-
 
-
 

 
संयमनम् - , संयमन
नरकः । यथा- ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा

यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोहन्ति । एवं भूतौ तेषामारोहावरोहौ भवतः

(ब्र० सू० ३।१।१३)।
 
-
 

 
संयोगः, संयोग
१. विषयविषयिणोर्भिन्नस्वभावयोरितरेतरधर्माध्यासरूपः । शुक्तौ

रजतमिव । यथा- "उच्यते क्षेत्रक्षेत्रज्ञयोर्विषयविषयिणोर्भिन्नस्वभावयोरितरेतर-

धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनो रज्जुशुक्तकादीनां

तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत्" (गी० १३ । २६ शा० भा०) ।

यथा च - "गुणसङ्गोऽत्र रूपाद्यासक्तिर्न किन्तु क्षेत्रक्षेत्रज्ञयोर्संयोगोऽन्योन्यस्मिन्न-

न्योन्यात्मकताध्यासलक्षणो बोध्यः" (तत्रैव नी० क०) । यथा च - "यावत् किमपि सत्त्वं

वस्तु जायते स्थावरं जङ्गमं वः तत्सर्वं क्षेत्रक्षेत्रज्ञसंयोगादविद्यातत्कार्यात्मकं जडम-

निर्वचनीयं सदसत्त्वं दृश्यजातं क्षेत्रं तद्विलक्षणं तद्भासकं स्वप्रकाशपरमार्थं

सच्चैतन्यमसंयोगादासीनं निधर्मकमद्वितीयं क्षेत्रज्ञं तयोः संयोगो मायावशादितरेतरा-

विवेकनिमित्तो मिथ्यातादात्याध्यासः सत्यानृतमिथुनीकरणात्मकः तस्मादेव सञ्जायते ।

तत्सर्वं कार्यजातमिति विधिना" (तत्रैव म० सू०) । यथा च - "रज्जुशुक्तिकादीनां