This page has not been fully proofread.

शारवेदान्तकोशः
 
(तत्रैव वे० क० त० ) । यथा च – "सम्भक्ताविति धातोरौणादिकप्रत्ययान्ततया निष्पन्नो
वामशब्दः सम्भजनीयवाची शोभनेषु पुण्यफलेषु वगादिभोगवस्तुषु पर्यवस्यतीति भावः
(तत्रैव वे० क० त० प० ) । संयद् - सम्पत्स्यमानं वामम् सुपुण्यफलं सर्वकल्याणम् ।
सर्वकल्याणनिधानं ब्रह्म परमात्मा । यथा - "संयन्ति संगच्छमानानि वामान्यनेनेति
संयद्वामः परमात्मा" (ब्र० सू० १ । २ । १३ भाम० ) ।
 
-
 
४५८
 
=
 
संयमः निरोधसमाधिर्योगो वा । यथा - "सर्वाणीन्द्रियकर्माणीन्द्रियाणां
कर्माणीन्द्रियकर्माणि तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकस्तत्कर्माण्याकुञ्चन-
प्रसारणादीनि तानि चापर आत्मसंयमयोगाग्नावात्मनि संयम आत्मसंयम स एव
योगाग्निस्तस्मिन्नात्मसंयमयोगानौ जुह्वति प्रक्षिपन्ति" (गी० ४।२७ शा० भा०) । यथा
च – "आत्मसंयमयोगाम्नौ आत्मविषयकः संयमो धारणाध्यानसंप्रज्ञातसमाधिरूपस्त-
त्परिपाके सति योगो निरोधसमाधिः" (तत्रैव म० सू० ) ।
 
-
 
-
 
संयमनम् - नरकः । यथा- ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा
यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोहन्ति । एवं भूतौ तेषामारोहावरोहौ भवतः
(ब्र० सू० ३।१।१३)।
 
-
 
संयोगः– १. विषयविषयिणोर्भिन्नस्वभावयोरितरेतरधर्माध्यासरूपः । शुक्तौ
रजतमिव । यथा- "उच्यते क्षेत्रक्षेत्रज्ञयोर्विषयविषयिणोर्भिन्नस्वभावयोरितरेतर-
धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनो रज्जुशुक्तकादीनां
तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत्" (गी० १३ । २६ शा० भा०) ।
यथा च - "गुणसङ्गोऽत्र रूपाद्यासक्तिर्न किन्तु क्षेत्रक्षेत्रज्ञयोर्संयोगोऽन्योन्यस्मिन्न-
न्योन्यात्मकताध्यासलक्षणो बोध्यः" (तत्रैव नी० क०) । यथा च - "यावत् किमपि सत्त्वं
वस्तु जायते स्थावरं जङ्गमं वः तत्सर्वं क्षेत्रक्षेत्रज्ञसंयोगादविद्यातत्कार्यात्मकं जडम-
निर्वचनीयं सदसत्त्वं दृश्यजातं क्षेत्रं तद्विलक्षणं तद्भासकं स्वप्रकाशपरमार्थं
सच्चैतन्यमसंयोगादासीनं निधर्मकमद्वितीयं क्षेत्रज्ञं तयोः संयोगो मायावशादितरेतरा-
विवेकनिमित्तो मिथ्यातादात्याध्यासः सत्यानृतमिथुनीकरणात्मकः तस्मादेव सञ्जायते ।
तत्सर्वं कार्यजातमिति विधिना" (तत्रैव म० सू०) । यथा च - "रज्जुशुक्तिकादीनां