This page has been fully proofread once and needs a second look.

शाङ्कवेदान्तकोशः
 
-
 
काम्यकर्मत्यागः संन्यासत्वेन नित्यादिकर्मणां फलानभिसन्धानं च त्यागत्वेन सूचयत -

इति । तस्मादश्रद्धया कृतः संन्यासोप्यसन्नेवेति संन्यासाद् ब्रह्मणः स्थानमिति स्मृतं

स्वफलं दातुं न समर्थ इति युक्तमुक्तं भगवता अश्रद्धया कृतं सर्वं व्यर्थमिति" (तत्रैव

नी० क० ) । यथा च - "काम्यानां फलकामनया चोदितानामन्तःकरणशुद्धावनुप-

युक्तानां कर्मणामिष्टपशुसोमादीनां न्यासं संन्यासं विदुर्जानन्ति कवयः सूक्ष्मदर्शिनः"

(तत्रैव म० सू०) । यथा च – "काम्यानां कर्मणां न्यासं परित्यागं संन्यासं कवयो विदुः"

(तत्रैव श्रीधरी) । ४. ईश्वरसमर्पणतया कर्मफलत्यागः तथा- शोधितान्त:-

करणस्त्यक्तसर्वकर्मा पुरुषः यथा - "सोऽयं संन्यासयोगो नाम संन्यासश्चासौ

मत्समर्पणतया कर्मद्योगश्चासौ इति तेन सन्यासयोगेन युक्त आत्मान्तःकरणं यस्य"

(गी० ९/२८ शा० भा० ) । यथा च - "ततश्च संन्यासयोक्तयुक्तात्मा संन्यासः

सर्वकर्मणां भगवति समर्पणं स एव योग इव चित्तशोधकत्वाद्योगस्तेन युक्तः शोधित

आत्मान्तःकरणं यस्य स त्वं त्यक्तसर्वकर्मा वा" (तत्रैव म० सू०) । संन्यासयोगो नाम

फलत्यागात् संन्यासश्चासौ कर्मत्वाद्योगश्च तेन युक्तः आत्मान्तःकरणं यस्य स त्वं

संन्यासः स्वरूपतः सर्वकर्मत्याग स एव युज्यते ब्रह्मणानेनेति योगस्तेन युक्तः तस्मिन्

युक्तः समाहितो वा आत्मान्तःकरणं यस्य स त्वम् (तत्रैव भाष्यो०)। ५. सम्यगूबुद्धिः

सांख्यम् । यथा - "संन्यासः सांख्यमिति मयाभिप्रेत:" (गी० ५/६ शा० भा०) ।
 
-
 
४५७
 
-
 

 
संन्यासी - , संन्यासिन्
१ . कर्तव्यभोक्तव्यादिसङ्कल्परूपमनोवृतीनां तत्साधनानां च त्यागशीलः ।

गथाः–"हि यस्मात्तस्मात् सर्वसङ्कल्पसंन्यासी सर्वेषां संङ्कल्पादीनामिदं मया कर्त्तव्यमेतत्फलं

भोक्तव्यमित्येवं रूपाणां मनोवृत्तिविशेषाणां तद्विषयाणां च कामानां तत्साधनानां च

कर्मणां त्यागशीलः(गी० ६।४ म० सू० ) । २. कर्म कुर्वन्नपि ईश्वरार्पणबुद्ध्या

फलत्यागी निष्कामकर्मयोगी । यथा च - "स निष्कामयोगी नित्यं संन्यासी बोधव्यः ।

यत्तु यदो योगात्तदोऽध्याहारः । सनित्यसंन्यासीत्येकं पदम् । नित्यैः कर्मभिः सह वर्तते

सनित्यः स चासौ संन्यासी चेति तन्न" (गी० ५।२ भाष्यो० ) ।
 
-
 

संयवामः- परमात्मा । यथा - संयन्ति संगच्छमानानि वामान्यनेनेति संयद्वामः

परमात्मा । ..... स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । स च भामतीः ।

भामानि भानानि नयति लोकमिति भामनी: (ब्र० सू० १ । २ । १३ भाम० ) । यथा च

"जीवान्प्रति संगच्छमानानि यानि वामानि तानि येन हेतुना संगच्छते स संयवामः