This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
भावः । एकदेशसम्बन्धमाह - संक्षेप इति । निर्गुणविद्यामात्रम् संक्षेपेण इत्यर्थः"
( सं शा० १० सु० टी०) ।
 
संघातः
 
पञ्चमहाभूतपरिणामः शरीरादिः । यथा- "संघातो देहेन्द्रियाणां
संहतिः" (गी० १३।६ शा० भा० ) । यथा च - "संघातः पञ्चमहाभूतपरिणाम:"
(तत्रैव म० सू० ) ।
 
-
 
-
 
सन्ध्यम् - स्वप्नस्थानम् । यथा - "तत्र तावत्प्रतिपद्यते संध्ये तथ्यरूपा
सृष्टिरिति । सन्ध्यमिति स्वप्नस्थानमाचष्टते; वेदे प्रयोगदर्शनात् 'संध्यं तृतीयं
स्वप्नस्थानम्' (बृ० उ० ४।३।९) इति । द्वयोर्लोकस्थानयोः प्रबोधसम्प्रसादस्थानयोर्वा
सन्धौ भवतीति सन्ध्यम् । तस्मिन् सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति " ( ब्र०
सू० ३।२।१ शा० भा०) ।
 
-
 
-
 
संन्यासः -
१. सर्वैषणात्यागलक्षणं ब्रह्म । यथा - "सर्वसङ्गपरित्यागो न्यासः
......किमपेक्ष्य परः संन्यास इत्यत आह तानि वा...... एतदुक्तं भवति......
ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थ-
भिक्षीरेवासाधारणं नेतरेषामाश्रमिणाम्" (ब्र० सू० ३ । ४ ।२० भाम० ) । यथा च -
"तथा च सर्वकर्मसंन्यासं वक्ष्यति" सर्वकर्माणि मनसा इत्यादिना । ननु मनसेऽति
वचनान्न वाचिकानां कायिकानां च संन्यास इति चेत्, न, सर्वकर्माणीति विशेषितत्वात् ।
मानसानामेव सर्वकर्मणामिति चेत्, न, मनोव्यापारपूर्वकत्वाद् वाक्कायव्यापाराणां
मनोव्यापाराभावे तदनुपपत्तेः । शास्त्रीयानां वाक्कायकर्मणां कारणानि मानसानि,
वर्जयित्वान्यानि सर्वकर्माणि मनसा संन्यसेदिति चेत्, न, नैव कुर्वन्न कारयन्' इति
विशेषणात् । सर्वकर्मसंन्यासोऽयं भगवतोक्तो मरिष्यतो न जीवत इति चेत्, न । नव द्वारे
पुरे देह्यास्ते इति विशेषणानुपपत्तेः । न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं
सम्भवति । अकुर्वतो अकार्यतश्च देहे संन्यस्येति सम्बन्धो न देहे आस्ते इति चेत्, न ।
सर्वत्रात्मनोऽविक्रियत्वावधारणात् । आसनक्रियायाश्चाधिकरणापेक्षत्वात्तदनपेक्षत्वाच्च
संन्यासस्य । सम्पूर्वस्तु न्यासशब्दस्त्यागार्थो न निक्षेपार्थ:" (गी० ५/१३ शा० भा० ) ।
२. लोकैषणापुत्रैषणावित्तैषणादित्यागः । यथा - "सर्वैषणापरित्यागः संन्यासाख्यः
(बृ० आ० उप० ४।४।७ शा० भा०) ।३. काम्यकर्मत्यागः । यथा – "काम्यानामश्व-
मेधादीनां कर्मणां न्यासं परित्यागं संन्यासं संन्यासशब्दार्थमनुष्ठेयत्वेन प्राप्तस्याननुष्ठानं
कवयः पण्डिताः केचिद् विदुर्विजानन्ति (गी० १८/२ शा० भा०) । यथा च
"तस्मादविरक्तकृतसंन्यासापेक्षया निष्कामकर्माचरणमेव श्रेय इत्याशयेन भगवता
 
-
 
-
 
-
 
P