This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
४५५
 
निरूपकज्ञानत्वमित्यपि लक्षणानि सम्भवन्ति । निर्विकल्पके तु अतिरिक्ता तुरीया

विषयता स्वीक्रियते । त्रिविधविषयतामध्य एकापि तत्र नास्ति (न्या० बो० १ पृ० ११)

(वाक्य० १ पृ० १२) (नील० १, पृ० १८) । (ग) मायावादिवेदान्तिनस्तु

ज्ञातृज्ञेयभेदादिसहितं ज्ञानं सविकल्पकमित्याहुः । (घ) योगशास्त्रज्ञास्तु सम्प्रज्ञाताख्यः

समाधिविशेष इत्याहुः (न्या० को०) ।
 

 
सविज्ञानः, सविज्ञान
जीवः । यथा - "विज्ञायते अनेनेति विज्ञानं पञ्चवृत्तिप्राणसहित

इन्द्रियग्रामस्तेन सहावतिष्ठत इति सविज्ञान: (ब्र० सू० ४।२।४ भाम०) । यथा च -

"विज्ञानशब्दो भावकरणव्युत्पत्तिद्वयेन प्रारब्धकर्मप्रकाशकस्येन्द्रियग्रामस्य च तन्त्र-

न्यायेन वाचक इति तत्साहित्यं जीवस्य सविज्ञान इत्येवोच्यत इति भावः"

(तत्रैव क० त० प० ) । यथा च "सविज्ञानशब्दः प्राप्तव्यकर्मफलप्रकाशवचन

इत्युक्तमिह तु तमपरित्यज्य तत्सहितेन्द्रियसमुदायवचन इत्युक्तमिति न तद्विरोधः (तत्रैव

वे० क० त० ) ।
 
-
 

 
सवितर्कः- , सवितर्क
समाधिमेदः । यथा - तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का

समापत्तिः (पा० यो० सू० १४२) । तद् यथा गौरिति शब्दो गौरित्यर्थः गौरिति

ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा

अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो

गवाद्यर्थः समाधिप्रज्ञायां समारूढ़ः स चेच्छब्दार्थज्ञानविकल्पानुबिद्ध उपावर्तते सा

सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते (तत्रैव व्यासभाष्यम्) । यथा च - यदा पृथिव्यादीनि

स्थूलानि विषयत्वेनादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेख्यसम्भेदेन च भावना प्रवर्तते

स समाधिः सवितर्कः (सर्व० सं० पात०) । अयं पातञ्जलसमाधिभेदः । अद्वैतिभिस्तु

समाधिः परमेश्वर उच्यते । यथा - श्रुतिविप्रतिपन्ना ये यदा स्थास्यति निश्चला ।

समाधावचला बुद्धिस्तदा योगमवाप्स्यति (गी० २।५३) । अत्र श्रीधरी व्याख्यायाम्-

श्रुतिभिर्नानालौकिकवैदिकार्थश्रवणैर्विप्रतिपन्ना इतः पूर्वं विक्षिप्ता सती ते तत्र समाधौ

बुद्धिर्यदा स्थास्यति समाधीयते चित्तमस्मिन्निति समाधिः परमेश्वरः.... ।
 
-
 
-
 

 
संक्षेपशारीकम् - , संक्षेपशारीक
संक्षेपेण जीवब्रह्मैक्यबोधकं शास्त्रम् । यथा – "शरीरे भवः

शारीरो जीवस्तं ब्रह्मत्वेन काययति बोधयति इति शारीरकं शास्त्रं तस्यार्थः प्रयोजनं

विषयश्च यद्ब्रह्मात्यैक्यं तत्साक्षात्कारः प्रधानमुद्देश्यं यस्य तत्तथा शास्त्रं हि

विचारप्राधान्यादवगतिं गर्भीकृत्य प्रवृत्तमिदं त्ववगतिप्राधान्येनैवेति स्फुटं कार्यान्तरमिति