This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
सवस्तु सोपलम्भम् - यथा - सता वस्तुना सह वर्तत इति सवस्तु । तथा
चोपलब्धिरुपलम्भस्तेन सह वर्तत इति सोपलम्भञ्च शास्त्रादिव्यवहारास्पदं ग्राह्य-
ग्राहकलक्षणं द्वयं लौकिकं लोकादनुपेतं लौकिकं जागरितमित्येतत् (मा० उ० गौ०
का० ४।८७ शा० भा० ) ।
 
४५४
 
-
 
सवस्तूपलम्भः – सपरमार्थतोपलब्धिः । यथा - सता वस्तुना सह वर्तत इति
सवस्तु । तथा चोपलब्धिरुपलम्भस्तेन सह वर्त्तत इति सोपलम्भं च..... वेदान्तेषु
(मा० उ० गौ० का० ४।८७ शा० भा०) ।
 
-
 
सबिकल्पकः - ध्यातृध्येयसहिता तदाकाराकारिता अन्तःकरणवृत्तिः । यथा -
.
"सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलयानपेक्षयाऽद्वितीयवस्तुनि तदाकाराकारि-
तायाश्चित्तवृत्तेरवस्थानम् । तदा मृण्मयगजादिभानेऽपि मृद्भानवत् द्वैतभानेऽप्यद्वैतं
वस्तु भासते । तदुक्तम्- दृशिस्वरूपं गगनोपमं परं सकृविभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्तमोम् (वे० सा०) । यथा च तच्च
प्रत्यक्षं द्विविधम् । सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहि
ज्ञानम् । यथा- घटमहं जानामीत्यादिज्ञानम् । निर्विकल्पकं तु संसर्गानवगाहि ज्ञानम् ।
यथा सोऽयं देवदत्तः, तत्त्वमसीत्यादिवाक्यजन्यज्ञानम् (वे० प० १ प०) । योगशास्त्रे
सम्प्रज्ञातसमाधिरपि एतादृश एव । यथा- वितर्कविचारानन्दास्मितारूपानुगमात्
सम्प्रज्ञातः (पा० यो० १।८) । सम्प्रज्ञातसमाधिः सालम्बनो भवति । यथा च -
सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयम् । ब्राह्मणोऽयम् । श्यामोऽयमिति
(त० सं० १ ख०) ।
 
-
 
-
 
सविकल्पकम् - प्रत्यक्षभेदः । यथा प्रत्यक्षंद्विविधम् सविकल्पकनिर्विकल्पक
भेदात् (वे० प० १ प०) (प्रत्यक्षम्) । (क) विशिष्टग्रहणम् । (ख) वैशिष्ट्यावगाहि
सप्रकारकं वा ज्ञानम् (न्या० म० पृ० ४) (त० स०) । यथा- डित्थोऽयम्, ब्राह्मणोऽयम्
श्यामोऽयम्, पाचकोऽयमिति प्रत्यक्षज्ञानम् (त० सं०) अत्र वैशिष्ट्यावगाहि इत्यस्य
नामजात्यादिविशेषणविशेष्यसम्बन्धावगाहि ज्ञानमित्यर्थः (त० दी० १ पृ० १८) (त०
कौ०) । सप्रकारकमित्यस्य कस्मिंश्चिन्निष्ठप्रकारताशालिज्ञानमित्यर्थः (त० प्र० १ ) ।
सविकल्पकमित्यत्र विकल्पः प्रकारता । तथा च तल्लक्षणं प्रकारतानिरूपकज्ञानत्वम्
इति । अयं भावः । विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य च विषयतानिरूपकत्वेन
प्रकारतानिरूपकज्ञानत्वं तल्लक्षणम् । एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गता-