2023-03-12 05:02:02 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
४५३
तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः- सर्वकर्मा सर्वकामः सर्वगन्धः
सर्वरसः (छा० ३ । १४।४) । यथा च - सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पित-
रूपभेदोपन्यासेनोक्तमेव (ब्र० सू० २।१।३१ शा० भा० ) ।
सर्वारम्भपरित्यागी
लौकिकपारलौकिकफल्योगहेतुकसकलकर्मोद्योगत्यागी ।
यथा - "सर्वारम्भपरित्यागी आरभ्यन्त इत्यारम्भा इत्रामुत्रफलभोगार्थानि कामहेतूनि
कर्माणि सर्वारम्भास्तान्परित्यक्तुं शीलमस्येति सर्वारम्भपरित्यागी" (गी० १२/१६ शा०
भा० ) । यथा च - "सर्वारम्भपरित्यागी सन्यासित्वादेव" (तत्रैव नी० क० ) । यथा
-
U
-
च- "ऐहिकामुष्मिकफलानि सर्वाणि कर्माणि सर्वारम्भास्तान् परित्यक्तुं शीलं यस्य
स सर्वारम्भपरित्यागी सन्यासी" (तत्रैव म० सू०) । यथा च - "अत एवैहिकामुष्मिक-
दुःखनिवृत्तितत्सुखप्राप्त्यर्थानि कर्माणि आरभ्यन्त इत्यारम्भास्तान् परित्यक्तुं शीलमस्य
स सर्वारम्भपरित्यागी'' (तत्रैव भाष्यो०) । यथा च - "सर्वान्दृष्टादृष्टार्थानारम्भानुद्यमान्
परित्यक्तुं शीलं यस्य स एवम्भूतः" (तत्रैव श्रीधरी) ।
-
सर्वास्तित्वादि – सर्वास्तित्वविज्ञानास्तित्वसर्वशून्यत्ववादाः= बौद्ध दर्शनस्येमे त्रयः
सिद्धान्ताः । यथा – "तत्रैते त्रयो वादिनो भवन्ति केचित् सर्वास्तित्वादिनः केचिद्
विज्ञानास्तित्ववादिनः अन्ये पुनः सर्वशून्यत्ववादिन इति" (ब्र० सू० २/२/१८ शा०
भा० ) । यथा च - "वादिवैचित्र्यात् खलु केचित् सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते ।
केचिज्ज्ञानमात्रास्तित्वम् । केचित्सर्वशून्यताम्... । हीनमध्यमोत्कृष्टधियो हि शिष्या
भवन्ति । तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामव-तार्यन्ते ।
ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतय-स्तेभ्यः
साक्षादेव शून्यतात्वं प्रतिपाद्यते (तत्रैव भाम० ) ।
-
सर्वेश्वरः - भेदजातस्य सर्वस्येशिता । यथा - "एष हि स्वरूपावस्थः सर्वेश्वरः
साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतज्जात्यन्तरभूतोऽन्येषामिव" (मा० उ०
१।४ शा० भा०) । यथा च - सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः ?
तद्दर्शनात् । तथा हि दर्शयति श्रुतिः । सर्वशक्तियोगं परस्या देवतायाः । सर्वकर्मा
सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः - छा० ३।१४।४-।
सर्वकामः सत्यसङ्कल्प:- छा० ८।७।१ - । यः सर्वज्ञः सर्ववित्- मुण्ड० १।१।९-1
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः - बृ० ३१८/९-
-
इत्येवं जातिकाः - ब्र० सू० २।१।३० शा० भा० ।